Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.115
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.115
- Language
- English
v2.c83.115
पदकं संप्रवक्ष्यामि सर्वरत्नैरलंकृतम् ।
धूली ? मरकतं चाद्यं तथा चैवं सपत्रकम् ॥
कीटपक्षोऽपरः प्रोक्तो गरुडागार एव च ।
चत्वारो मणयः प्रोक्ताः सर्वे दुःखप्रणाशनाः ॥
पञ्चधा भाजितेक्षेत्रे पुनस्त्वेवं च पञ्चभिः ।
तन्मध्ये च महादिव्यं मरकतं सुरवल्लभम् ॥
माणिक्यं पूर्वतो देशे दाडिमीबीजसप्रभम् ।
उदितार्कसमच्छायं प्रभामण्डलमण्डितम् ॥
दृश्यते तत्तु माणिक्यं दक्षिणं दिशमाश्रितम् ।
पद्मरागनिभं स्वच्छं दीपकांशु स्वभावकम् ॥
अपरं च महादिव्यं माणिक्यं ब्रह्मवल्लभम् ।
सुस्निग्धं दुग्धवत्स्वच्छं दाडिमीकुसुमप्रभम् ॥
तन्माणिक्यं तु कौबर्यां शाश्वतं शक्तिपूजने ।
दक्षिणोत्तरप्राचीषु नीलं वै वज्रवत् क्रमात् ॥
तन्मध्ये विदिशायां च वज्रं शक्रस्य वल्लभम् ।
पद्माकारं धृतं दद्यात्परिधौ नालरूपकम् ॥
विचित्रकण्टकैर्युक्तं पत्रशाखाविभूषितम् ।
दण्डशृङ्खलरूपं च खचितं चित्ररत्नकैः ॥
लशुनं मध्यभूमी स्याद् हृदयानन्दकारकम् ।