Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.116
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.116
- Language
- English
v2.c83.116
श्रीवत्सं संप्रवक्ष्यामि सदा विष्णोश्च वल्लभम् ॥
चतुरस्रं समं कृत्वा रसभागविभाजितम् ।
चतुष्पदं च मध्यस्थं रमणं कलिकोद्भवम् ॥
बाह्यपङक्तौ दिशायां च चतुर्भागैश्चतुर्दिशम् ।
कोणे पदानि चत्वारि दिशायां मूर्ध्नि पत्रकम् ॥
क्षिपेत्समस्तगर्तेषु शुचीर्वीराह्वकर्णिकाः ।
तन्मध्ये च महारत्नं सर्वलक्षणसंयुतम् ॥
तस्याऽधः पङ्कजं दिव्यमष्टपत्रं सकेसरम् ।
मृणालग्रन्थिबल्लीकं कन्दं कलिविभूषितम् ॥
वर्तना कथिता सा तु कथ्यते तेऽधुना पुनः ।
क्षेपगर्तकमध्यस्थं मध्ये चोपाश्रयं क्षिपेत् ॥
सोमकान्तिं तस्योपरि सुधाधौतं सदासितम् ।
वर्णानुक्रमपरिधौ धूल्याद्यं गरुडान्तगम् ॥
तदुपरि पत्रवल्ली पुष्परागचतुष्टयम् ।
कोणस्थानेषु वैडूर्यंचतुष्टकं विघ्रनाशनम् ॥
चक्रकोणेषु सर्वेषु निक्षिपेत् परिधौ क्रमात् ।
पौँद्रमातङ्गसौराष्ट्रहेमसापरिकोशलाः ॥
वेणवातरं कलिङ्गश्च वज्रस्याष्टौ तथा कराः ।
वर्णानुक्रमकं वक्ष्ये विप्रशूद्रान्तजातिषु ॥
(इतः परं भ्रष्टो ग्रन्थः)
. . . . .