Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.117
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.117
- Language
- English
v2.c83.117
तदधस्तान्मृणालं च कण्टककलिभूषितम् ॥
मध्यभूमौ समस्तायां पत्रपंक्तिविराजितम् ।
दिक्स्थानेषु स्थितं बाह्ये पद्मराग चतुष्टयम् ॥
महारत्नेन्द्रनीलाश्च चत्वारश्चचतुर्दिशम् ।
अष्टौ च कोणपत्रेषु पुष्परागास्तथोदिताः ॥
तन्मध्यतो वै शिरीषशाखापत्रविराजितम् ।
समस्तं हीरकैर्बद्धं मुक्ताभिर्मणिभिस्तथा ॥
विचित्रपत्रसंयुक्तमूर्ध्वं कुर्यात् सुरूपकम् ।
दण्डस्तु भागविस्तीर्णो द्विभाश्चोर्ध्वरतो भवेत् ॥
उत्तन्तं गर्तसम्पन्नं हीरकैः खचितं तथा ।
अन्तरे तस्य माणिक्यमुदिताकसप्रभम् ॥
उपाश्रयं च संक्षिप्य न्युप्तं वाराभिर्वर्जितम् ।
दृढत्वं च मृदुत्वं च मृणालकमलोपमम् ॥
ईदृशं च महालिङ्गमपांपतिसमुद्भवम् ।
हृत्पद्मोपरिस्थाप्यः सौम्यकान्तिश्चिन्तामणिः ॥