Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.121
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.121
- Language
- English
v2.c83.121
शेखरं शिखराकारमङ्गत्रयविभूषितम् ॥
तन्मध्ये च महारत्नं वज्रं वै रुद्ररूपकम् ।
मरकतं वामदेशे च साक्षाद्वै विष्णुदैवतम् ॥
दक्षिणे पद्मरागं च पुरुषाख्यवपुः कृतम् ।
त्रिभिः शृङ्गैः रत्नमयं मूलदेशे प्रपूजितम् ॥
सदाशिवो मध्यपट्टे श्रेणीयुक्तश्च मण्डितः ।
पद्मरागैश्च मणिभिरिन्द्रनीलादिभिस्तथा ॥
पूरिताहीरक्कणैः समस्ता खचिता मही ।
पत्रवल्ली त्रिभङ्गी च कर्णिका कलिकैर्युतम् ॥