Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.122

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.122

Language
English

v2.c83.122

अतोवक्ष्यामि मकुटं तथा सुरगणार्चितम् ।
पट्टं शशिप्रभाभं च शृङ्गपञ्चकसंयुतम् ॥
शृङ्गाण्युपरि चत्वारि त्रीणि चैव तदूर्ध्वतः ।
शृङ्गद्वयं तत्परं तदुपर्यैकं च शृङ्गकम् ॥
शृङ्गाणि चैव कार्याणि मणिभिर्भूषितानि च ।
हीरकेण समायोज्य पत्रवल्लीसमन्वितम् ॥
तत्रमध्ये महादिव्यं सोमकान्तमणिस्तथा ।
धृतं शिरसि संपूज्यं मुकुटं च किरीटकम् ॥