Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.28

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.28

Language
English

v2.c83.28

पुरा चाराधितं लिङ्गं धर्मभक्तिरतैस्तथा ।
लिङ्गं भद्र स्वरूपे च सम्प्राप्तः परमां गतिम् ॥
शक्रेणाराधितो देवो लिङ्गं वज्रमयं स्मृतम् ।
सुरराजपदं प्राप्तं रम्भाशक्तियुतात्मभिः ? ॥
धनदाराधितो देवो लिङ्गं स्वर्णमयं तथा ।
सम्प्राप्तो धनदत्वं च स्वयोनौ नाऽत्र संशयः ॥
विश्वेदेवाराधितो वै लिङ्ग रूप्यमयं स्मृतम् ।
प्राप्तः स विश्वेदेवत्वं स्वयोनौ नात्रसंशयः ॥
मारुताराधितो देवो लिङ्गं वै पित्तलात्मकम् ।
पवनत्वं स्म प्राप्नोति स्वयोनो नात्र संशयः ॥
आराधितोऽष्टवसुभिर्लिङ्गं कांस्यमयं स्मृतम् ।
वसुत्वाद्यपदं प्राप्तं स्वयोनौ नात्र संशयः ॥
मरीच्यादिगणैर्देवैः स्वल्प ? लिङ्गं पुराचितम् ।
शतार्थं विना त्वेकैश्च ? प्राप्ता देवपदं तथा ॥
तथा व्यन्तरजैर्देवो लिङ्गं वै पित्तलात्मकम् ।
आराधितं ततस्ते वै मुक्तिं प्राप्ता स्वयोनितः; ॥
शीशकोद्भवलिङ्गं तु पैशाचैरर्चितं पुरा ।
मुक्तिं प्राप्तास्तेन ते च स्वयोनेर्नाऽत्र संशयः ॥
वासुक्याद्यैश्च नागैश्च लिङ्गं तद्वयमनोर्चितिम् ? ।
ततः पाताल ाज्यं तु सम्प्राप्ताः कुलपन्नगाः ॥
दीप्तं वह्न्यर्चितं लिङ्गं ज्योतिर्मण्डलमध्यगम् ।
हुताशनः पदं प्राप्तः सर्वदेवमुखं तथा ॥
सूर्यकान्तमयं लिङ्गमादित्येन पुरार्चितम् ।
सूर्यत्वं च पदं प्राप्तं स्वयोनौ नात्र संशयः ॥
चन्द्रकान्तमयं लिङ्गं सोमेन च पुरार्चितम् ।
प्राप्तं नक्षत्राधिपत्यं स्वयोनौ नात्र संशयः ॥
प्रबालकमयं लिङ्गं पुरा मङ्गलपूजितम् ।
बुधेनाराधितं लिङ्गमिन्द्रनीलमयं पुरा ॥
पुष्परागयं लिङ्गं वाचस्पतिसुपूजितम् ।
शुक्रेण वै शङ्खमयं शशिना कृष्णनीलजम् ॥
केतुना वैडूर्यमयं गोमेधीयं च राहुणा ।
आर्हंतैः पूजितं लिङ्गं शुद्धस्फटिकजं तथा ॥
महालिङ्गं हैमवतं ब्रह्मणा स्वयमर्चितम् ।
हेमकूटे विरूपाक्षं तज्जनार्दनपूजितम् ॥
देवीभिश्च समस्ताभिरष्टलोहमयं तथा ।
भैरवैः क्षेत्रपालैश्च त्रिजद्यात्मकर्मचितम् ॥