Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.29
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.29
- Language
- English
v2.c83.29
योगिनीभिर्दिव्यलिङ्गं ब्रह्मरन्ध्रे च ध्यानजम् ।
शैलजं पार्थिवं लिङ्गं धातुजं रत्नजं तथा ॥
धर्मार्थकाममोक्षं च प्राप्नोति मनसि स्थितम् ।
लिङ्गं देवो रत्नजं च मुक्तिकामैर्नरेश्वरैः ॥
धातुदं शान्तिदं पूज्यं राजभिर्मुक्ति कीर्तिदम् ।
शैलजं च प्रवक्ष्यामि ह्यष्टवर्णमुदाहृतम् ॥
श्वेतं च पद्मवर्णं च कुमुदाभं च मुद्गभम् ।
पाण्डुरं माक्षिकनिभं कपोताभं च भृङ्गभम् ॥
श्वेतैर्विप्रा श्रवर्धन्ते राजानः पद्मवर्णकैः ।
वैश्याः कुमुदवर्णैश्च मुद्गाभैः शूद्रजातयः ॥
शेषवर्णैस्तथा चैव सामान्याननुलक्षयेत् ।
आरोग्यं पाण्डुवर्णे स्यात् माक्षिके विजयः स्मृतः ॥
कपोते चार्थवृद्धिश्च भृङ्गामे सुप्रजाः स्त्रियः ।
पृथ्वीमयं पार्थिवं स्याद्विधा तच्चैव भेदतः ॥
पक्वापक्वरेणुकाभिः सुखलिङ्गं प्रकीर्तितम् ।
सौभाग्यदं कुङ्कुमाढ्यैर्कपूरैः कामदं तथा ॥
कस्तूरिकाभवं लिङ्गं भुक्तिकामदिभोगदम् ।
मातुलिङ्गभवं पूज्यं भुक्तिकामैश्च राज्यदम् ॥
मद्यगं करवीराणां पूजितं श्रीपदं भवेत् ।
सन्तानवृद्धिदं पूज्यं लिङ्गं सर्वफलोद्भवम् ॥
यद्यत्फलोद्भवं लिङ्गं तै फलैर्नोपजीवयेत् ।
चित्रेऽथवागमे वापि नियमार्थं सुपूजितम् ॥
तथाक्षतमयं पूज्यं मन्त्रलिङ्गं च पूजयेत् ।
उक्त्वा षडक्षरं मन्त्रं पुण्यं लिङ्गस्य दर्शनम् ।
पञ्चवारं समुच्चार्य लिङ्गवक्त्रादिदर्शनम् ॥