Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.57

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.57

Language
English

v2.c83.57

लिङ्गे स्वयंभुवे ज्ञात्वा मानुषे च द्विधा भवेत् ।
स्वयंभुलिङ्गे तु शिरोमानं च संग्रहम् ॥
परिणाहे यथा स्थूलदेशे विस्तारं मानयेत् ।
मानुषलिङ्गतुङ्गे तु तच्छिरोमानकं त्यजेत् ॥
विस्तारे परिणाहे तु यदिच्छं देहं गृह्यते ।
एवं लिङ्गद्वयोत्तुङ्गे पीठमानं त्यजेद् बुधः ॥
लिङ्गशुद्धोदयं वाथ तत्तन्नाहसमं भवेत् ।
केचित्तत्त्रयमानं तु षोडशांशे विभाजिते ॥
तत्तदंशेन वृद्धिः स्याद्धीनं वा देशकालकम् ।
अथवा तत्तदंशेन लोकभूततलांशकम् ॥
नवमेकादशं चैव द्व्यधिक्यं वाथ हीनकम् ।
एवं लिङ्गवशात्प्रोक्तं विष्णुबेरवशादुच्यते ॥
मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम् ।
हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥
नाभ्यन्तं मेढ्रसीमान्तं नवमानं चोत्सवोदयम् ।
तदर्थं कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ॥
शुद्धगर्भगेहं कृत्वा नन्दनन्दोदयं भवेत् ।
तदेवं नवमानं स्यान्नवतिविधमानकम् ॥
एवं गर्भगेहमानवशान्मानं प्रकल्पयेत् ।
प्रासादविस्तृते मानं गर्भगेहप्रमाणवत् ॥
शुद्धद्वारोदयं वाथ विस्तारे चायामे एव वा ।
तत्पादाधिकहीनं वा तत्तयोर्मध्यमानके ॥
समं वा पादमाधिक्यं द्वारमानं नवोदयम् ।
अधिष्ठानोदयं चैव पादतुङ्गं द्वयं ततः ॥
प्रत्येकं नवधा कृत्वा नवमानमुदीरितम् ।
हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ॥
तालादिनवतालान्तं नवतालादिमानकम् ।
मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥
कर्तुस्तुङ्गसमं वापि नेत्रान्तं च पुटान्तकम् ।
हन्वन्तं स्कन्धसीमान्तं स्तनान्तं हृदयान्तकम् ॥
नाभिमेढ्रविधानं स्यात्कर्तृमानं नवोदयम् ।
एतेषां चाष्टमानं तज्जात्यंशैस्तु नियोजयेत् ॥
तन्मानं शिल्पिभिः प्राज्ञैः षट्शुभायादि कारयेत् ।
अशुभायादिकं चोक्तं त्रिशद्भागे विभाजिते ॥
तद्भागेकेन वृद्धिः स्याद् यशच्छुभायादिसंभवम् ।
सकलं चोत्सवादीनां यच्छुभांशावसानकम् ॥
अंशकं मानमेवोक्तमङ्गुलैर्मानमुच्यते ।