Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.58

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.58

Language
English

v2.c83.58

यल्लिङ्गतुङ्गं संग्राsynchronizeह्य चतुर्विंशच्छतान्तकम् ॥
लिङ्गाङ्गुलमिति प्रोक्तं बेरं तालवशादपि ।
कृत्वा बेराङ्गुलं प्रोक्तं मानाङ्गुलमिहोच्यते ॥
यवताराष्टमात्रं स्याद् देवानामाङ्गुलं भवेत् ।
मध्यं मुनियवाङ्गुल्यं षट्पञ्चाङ्गुलायतम् ॥
मानाङ्गुलमिति प्रोक्तं देहलब्धाङ्गुलं भवेत् ।
अङ्गुलद्वयमारभ्य जात्यंशं विनोद्यं स्यात् ॥
द्वित्र्यङ्गुलं समारभ्य मध्ये भूताङ्गुलमारभेत् ।
सप्ताङ्गुलं समारभ्य द्विद्वयङ्गुलविवर्धनात् ॥
पञ्चविंशच्छतान्तं स्याद् यच्छुभायादसंभवम् ।
नागं नन्दं गुणं चाष्टनववेदगुणस्तथा ॥
भानुपङ्क्त्यष्टहर्क्षमुनिनन्दक्षयं क्रमात् ।
शेषमायं व्ययं योनिश्च नक्षत्रं वारमंशकम् ॥
दरिद्रं दारनाशं च श्रीकरं विजयाद्भुतम् ।
भुक्तिर्मुक्तिश्च भोगस्तु चार्थलाभद्वयावहम् ॥
कीर्तिदं पुष्कलं चैव द्वादशं च तत्फलम् ।
सिद्धिदं विजयं चैव श्रीकरं चार्थहानिकम् ॥
भोगं च शत्रुनाशं च चक्षुरायार्थलाभकम् ।
मुदितं सौख्यकं चैव दशधा व्ययस्य फलम् ॥
आयं सर्वहरं पुण्यं व्ययं सर्वहरं सुखम् ।
आयाधिक्यं व्ययं हीनं सर्वसंपत्करं सदा ॥
यत्फलं शुभयुक्तं चेदायहीनं तद्द्षणम् ।
पूज्यं व्ययं सममेवं तत्र दोषो न विद्यते ॥
ध्वजः सिंहो वृषो हस्ती स तेषां शुभयोनयः ।
जन्मद्वयं चतुष्षष्टिभिरष्टनन्दशुभर्क्षकम् ॥
नामजन्मादिनन्दं च गणनैस्तु विधीयते ।
कर्तृराश्यादिनारभ्य च मीनं द्वितीयान्तकम् ॥
तृतीये मीनजक्षादौ पूर्ववत् गुणनैस्तु वा ।
तस्मात्तृतीयपर्यन्तमृक्षैः सर्वशुभावहम् ॥
गुरुशुक्रबुधश्चन्द्रमुख्यवारं प्रशस्यते ।
तस्करोधनं षण्डञ्च प्रेष्यान्यानि शुभांशकम् ॥
वर्ज्यं षष्ठाष्टमं राशिमन्यत्सर्वं शुभं भवेत् ।
गजः सर्वशुभं प्रोक्तं मानुषासुरं वर्जयेत् ॥
एकनेत्रं द्विनेत्रं वा संयुक्तांशं विसर्जयेत् ।
शुभयोगं शुभमेवं मृत्युयोगविनाशनम् ॥
यत्र दोषो गुणाधिक्यं तत्र दोषो न विद्यते ।
तेषामधिकगुणं वान्यं सर्वदोषकरं भवेत् ॥