Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.60

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.60

Language
English

v2.c83.60

अन्योन्यमन्यतो ग्राह्यं चोक्तवत्तत्तवित्तमः ॥
ब्रह्माविष्णुश्च रुद्राणां बुद्धस्य जिनकस्य च ।
अन्येषां च प्रतिमानमेवं मानं तु संग्रहम् ॥
एवं तु चोत्सवादीनां स्थावरजङ्गमादिनाम् ॥
सर्वेषां देवदेवीनां शयनस्थानके चासने ।
मानसूत्रविधिं सम्यग्लक्षणं वक्ष्यतेऽधुना ॥
बेरायामसमं वापि त्रिपादं चार्धमेव वा ।
आयामं त्रिविधं प्रोक्तं तत्तदूर्ध्वविशालकम् ॥
देहलब्धाङ्गुलं चैव चतुस्त्रिद्व्यङ्गुलं घनम् ।
एवं प्रलम्बफलकालक्षणं चतुरश्रकम् ॥
तत्समं चासनं कुर्याद् घनं मानाङ्गुलेन च ।
चतुष्पादं त्रिपादं च द्विपादैकाङ्घ्रिमेव वा ॥
आसनस्योपरि स्थाप्य मध्ये बेरं विनिक्षिपेत् ।
सपादबेरायतं वाप्यर्धेनाङ्घ्रितुङ्गकम् ॥
पादतारं यथायुक्त्या कारयेत्तक्षकेन तु ।
फलका चासने चैव मानसूत्रं प्रसारयेत् ॥
कुर्याद्युक्त्या च पादोर्ध्वे प्रलम्बफलकां न्यसेत् ।
सूत्राग्रे कन्दुकाकारं लौहे पाषाणकेऽथवा ॥
तन्मध्ये सुषिरं कृत्वा बन्धयेच्छल्पिवित्तमः ।
फलके योजयेत्सर्वं सूत्रमेवं प्रशस्यते ॥
पूर्वापरपार्श्वे तु कायमध्ये प्रलम्बयेत् ।
स्थानके चासने चापि पञ्चसूत्रमुदीरितम् ॥
मुखान्तं द्विद्विमात्रं स्याल्लम्बं सप्तमिति स्मृतम् ।
तत्पृष्ठशिरः पार्श्वे तु वक्रान्तं रज्जुं लम्बयेत् ॥
नवसूत्रमिति प्रोक्तमेकादशमिहोच्यते ।
कक्षतारं द्वयं सूत्रं लम्बयेद् रुद्रसूत्रकम् ॥
अथवा पृष्ठमध्ये तु सूत्रं हन्वन्तं लम्बयेत् ।
चतुर्दिक्षु चतुर्मध्ये पञ्चसूत्रं प्रधानकम् ॥
अन्यथा पुरतो देशे सर्वं मध्यादि लम्बयेत् ।
पुटपार्श्वौ मुखान्तौ च कुक्षौ वा बाहुपार्श्वकौ ॥
लम्बयेत्सूत्रमित्युक्तमेतदेकादशस्तथा ।
परहस्तौ पुटपार्श्वे सूत्रं त्यक्त्वा चतुष्टयम् ॥
शेषं तु सर्वसूत्रं स्यादांसने च प्रकल्पयेत् ।