Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.61

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.61

Language
English

v2.c83.61

स्थानके ब्रह्मसूत्रं स्याल्लम्बयेत्तु विचक्षणः ॥
शिखामणौ तु मौल्यग्रे मध्यमे मौलिमध्यमे ।
मौलिमूले च पट्टे च ललाटस्य तु मध्यमे ॥
भ्रुवोर्मध्ये च नासिमध्ये हनूमध्यमे ।
हिक्काया मध्यमे चैव तथा हृदयमध्यमे ॥
तस्याधो नाभिमध्ये च मेढ्रमध्ये तथैव च
ऊरुमूलद्वयोर्मध्ये जान्वोर्मध्यमे तथा ॥
नलकाद्वयोर्मध्ये च पाष्ण्योर्मध्यमे तथा ।
तलमध्यद्वयोर्मध्यमङ्गुष्ठयोर्मध्यमे तथा ॥
एवं तु लम्बयेत्कुक्षिनासाग्रे स्पर्शयेद् बुधः
सूत्राच्छिखामाणि स्याद् द्वयन्तरं द्वादशाङ्गुलम् ॥
सूत्रान्मौलिमूलान्तं रसमात्रान्तरं भवत् ।
सूत्रं ललाटमध्यं तद् द्वयन्तरं द्वयङ्गुलं भवेत् ॥
हिक्कामध्यं तु सूत्रान्तं द्वयन्तरं तु षडङ्गुलम् ।
तत्सूत्राद्धृदयान्तं च द्वयन्तरं चार्थमात्रकम् ॥
तत्सूत्रान्नाभिसामान्तं द्वयन्तरं तु शिवाङ्गुलम् ।
तत्सूत्रान्मेढ्रमूलान्तं द्वयन्तरं तु गुणाङ्गुलम् ॥
स्थानके चासने वापि स्थानकेषु विशेषतः ।
पार्श्वसूत्रद्वयं काये द्वयन्तरं तदिहोच्यते ॥
तत्सूत्रादूरुमूलान्तं द्वयन्तरे तद् द्विमात्रकम् ।
सूत्रं च जानुमध्यं तत्सार्धवेदाङ्गुलान्तरम् ॥
तत्सूत्राज्जङ्घयोर्मध्यं द्वयन्तरं तु षडङ्गुलम् ।
सूत्रान्तं नलकान्तं स्यात्सार्धसप्ताङ्गुलं भवेत् ॥
समाङ्घ्रि स्थानकं कुर्यात्कायमृज्वायतं भवेत् ।
पादङ्गुष्ठद्वयोर्मध्ये द्वयन्तरं चाष्टमात्रकम् ॥
तलमध्यद्वयोर्मध्ये द्वयन्तरं तु पडङ्गुलम् ।
तत्पार्ष्णिंश्च द्वयोर्मध्ये च द्वयन्तरं वेदमात्रकम् ॥
नलकान्तद्वयोर्मध्ये द्वयन्तरं तु रसाङ्गुलम् ।
जङ्घामध्यद्वयोर्मध्ये द्वयन्तरं तु शराङ्गुलम् ॥
जानुमध्यद्वयोर्मध्ये द्वयन्तरं वेदमात्रकम् ।
ऊरुमध्यद्वयोर्मध्ये द्वयङ्गुलं चान्तरं भवेत् ॥
ऊरुमूलद्वयोर्मध्ये शिवमात्रान्तरं भवेत् ।
हस्तौ च लम्बनं कुर्यात्तदन्तरमिहोच्यते ॥
श्रोण्यात् कूर्परं पार्श्वं च द्वयन्तरं तु षडङ्गुलम् ।
प्रकोष्ठात्कटद्यन्तर द्वयन्तरं च त्र्यङ्गुलम् ॥
अथवा द्वयङ्गुलं वापि मणिबन्धं दशाङ्गुलम् ।