Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.63
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.63
- Language
- English
v2.c83.63
एवमाभङ्गसूत्रं स्यात् समभङ्गमिहोच्यते ।
उष्णीषस्य तु यथापार्श्वे ललाटस्य तु पार्श्वके ॥
यत्तत्पुटपार्श्वे तु स्तनचूचुकमध्यमे ।
नाभिश्चोरुस्तथा जङ्घा यथोक्तं गुल्फपार्श्वके ॥
एवं तु लम्बयेत् सूत्रं समभङ्गमिति स्मृतम् ।
उष्णीषस्य पूर्वपार्श्वे तु यथोक्तं नेत्रमध्यमे ॥
स्तनपार्श्वे चोरुमध्ये जानुजङ्घा च मध्यतः ।
तद् गुल्फाक्षयोर्द्वयोर्मध्ये द्वयन्तरं तु गुणाङ्गुलम् ॥
जानुद्वयोरन्तरं चाष्टमात्रं युक्त्या प्रयोजयेत् ।
ऊरुमूलद्वयोर्मध्ये द्वयन्तरं द्वयर्धमात्रकम् ॥
अङ्गुष्ठाग्रद्वयोर्मध्ये द्वयन्तरं द्वादशाङ्गुलम् ।
आभङ्गात्तरं प्रोक्तं समभङ्गमिहोच्यते ॥
तत्पादाङ्गुष्ठद्वयोर्मध्ये द्वयन्तरं षोडशाङ्गुलम् ।
पाष्ण्र्यन्तरं चतुर्मात्रं दशाङ्गुलं जानुकान्तकम् ॥
ऊरुमूलद्वयोर्मध्ये द्वयन्तरं त्वङ्गुलं भवेत् ।
एवं तु समभङ्गं स्यादतिभङ्गमिहोच्यते ॥
पाष्ण्र्यन्तरं शराङ्गुल्यं तत्पादाङ्गुष्ठयोरग्रके ॥
तद्द्वयोर्मध्यमे विशदङ्गुल्यं द्वयन्तरं भवेत् ॥
तज्जानुद्वयोर्मध्ये द्वयन्तरं द्वादशाङ्गुलम् ।
ऊरुमूलद्वयोर्मध्ये सार्धद्व्यङ्गुलकान्तरम् ॥
एवमतिभङ्ग स्यादेतानि युक्तितो न्यसेत् ।
एवं त्रिभङ्गसूत्रं तु द्वयन्तरं मानमुच्यते ॥
सूत्रात्तु तल्ललाटान्तं द्वयन्तरं च द्विमात्रकम् ।
तत्सूत्राज्जानुकान्तं च द्वयन्तरं तु षडङ्गुलम् ॥
तत्सूत्रात् हृदयान्तं च द्वयन्तरं चाङ्गुलं भवेत् ।
तत्सूत्रान्नाभिसीमान्तमध्यर्धाङ्गुलकान्तरम् ॥
तत्सूत्रान्येठूसीमान्तं द्वयन्तरं तु गुणांशकम् ।
तत्सूत्रादुरूमध्ये तु द्वयन्तरं च द्विमात्रकम् ॥
तत्सूत्राज्जानुकान्तं स्याद् रसमात्रान्तरं भवेत् ।
तत्सूत्रं नलकान्तं स्याद् द्वयन्तरं चाष्टमात्रकम् ॥
स्थितपादान्तरे चैव कुर्यात्तु वर्धकिस्तथा ।
नासाग्रे कुक्षिदेशे तु सूत्रस्य स्पर्शनं भवेत् ॥
शक्तीनां कुक्षिदेशे चैकाङ्गुलान्तरं तु वा ।
शक्तीनां पूर्वहस्तं तु स्तनान्तं कटिकाग्रकम् ॥
तदङ्गुष्ठावसानान्तं च द्वयन्तरं चतुरङ्गुलम् ।
तच्छ्रेण्यात् कूर्परान्तं तु द्वयन्तरं षडङ्गुलम् ॥
अंसादालम्बनं हस्तं द्वयन्तरं पूर्ववद् भवेत् ।