Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.62

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.62

Language
English

v2.c83.62

मध्याङ्गुलं च पार्श्वं च द्वयन्तरं दशमात्रकम् ॥
एवं तु देवदेवीनां स्थानके चासनेऽपि वा ।
ऊर्ध्वकायसमं कुर्यात्पद्मासनविशालकम् ॥
जानूर्ध्वोकेशपर्यन्तं तत्समं त्रिभुजाविति ।
मानयेज्जानुबाह्ये तु बाहुबाह्यं तु तत्समम् ॥
बाहुजानुद्वयं चैव सव्यापसव्यं मानयेत् ।
मेढ्रान्तं गुल्फस्याक्षान्तं द्वयन्तरं तु षडङ्गुलम् ॥
श्रोणिकूर्परपार्श्वे तु चान्तरं तु षडङ्गुलम् ।
प्रकोष्ठायतनं चैव पञ्चांसौ उपरि विन्यसेत् ॥
अर्धन्त्तिस्यासनं चेत्तु चैक पादं प्रलम्बयेत् ।
तज्जानुपार्श्वके तस्य द्वित्र्यङ्गलोनमेव च ॥
तत्सूत्राल्लम्बपादादौ द्वयन्तरं द्वादशाङ्गुलम् ।
सर्वासां देवदेवीनामेवं प्रोक्तं तदासनम् ॥
पूर्वे च मध्यसूत्रं तु पृष्ठसूत्रं प्रलम्बयेत् ।
तदेव मौल्यग्रमध्ये मौलिमूलस्य मध्यभे ॥
तत्कृत्वाथ ककुन्मध्ये वंशमध्ये तु लम्बयेत् ।
जघनस्य द्वयोर्मध्ये चोरुद्वयोश्च मध्यमे ॥
पृष्ठजानुद्वयोर्मध्ये पाष्ण्योर्मध्ये च लम्बयेत् ।
एवं तु वरसूत्रं स्यात्पार्श्वसूत्रमिहोच्यते ॥
कर्णयो सुषिरमध्ये पार्श्वकायस्थ मध्यमे ।
गुल्फस्य मध्यमे चैव पार्श्वसूत्र प्रलम्बयेत् ॥
पिप्पलीबाह्यदेशे तु स्तनचूचुकमध्यमे ।
उरुजान्वोर् यथादेशे तर्जन्यङ्गलमध्यमे ॥
कक्षसूत्रात्कटिपार्श्वेऽपरे चाङ्गलाष्टकम् ।
शक्तीनां कटिदेशे तु लम्बयेत्तु कनिष्ठके ॥
बाह्यके मध्यमे वापि कटी च पुटपार्श्वके
एवं तु कार्यसूत्रं स्याल्लम्बयेच्छिल्पिवित्तमः ॥
परहस्तपार्श्वयोः सूत्रं मानयेज्जानुपार्श्वकम् ।
सर्वाङ्ग च ऋजुं कुर्यात्पूर्वापरयोर् योजयेत् ॥
ऋज्वाङ्गकभावं सामान्यमिति विद्यते ।
सर्वासां देवदेवीनां भङ्गमानमिहोच्यते ॥
आभङ्गं समभङ्गं तु चातिभङ्गं त्रिधा भवेत् ।
त्रिचतुष्पञ्चमात्रं स्यात्तुङ्गमानमितिक्रमात् ॥
उष्णीशमध्यमे चैव ललाटस्यैव मध्यमे ।
नासिकाग्रस्य मध्ये तु हिक्कायथोक्तपार्श्वके ॥
यथोक्तचूचुकस्यान्तं नाभिपार्श्वे यथोक्तवत् ।
यथोक्तश्चोरुगुल्फस्य पार्श्वसूत्रं प्रलम्बयेत ॥