Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.67
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.67
- Language
- English
v2.c83.67
यत्किञ्चित्प्रतिमायां विभजेन्नवभागतः ।
स्वकीयाङ्गुलमानेन भागं वै द्वादशाङ्गुलम् ॥
अष्टोत्तरशतं सङ्ख्यैरङ्गुलैरुच्छ्रयो भवेत् ।
नवतालः स विज्ञेयो व्यवहारे प्रसिद्धयति ॥
नवताले ततो वृद्धौ मस्तोर्ध्वे चतुरङ्गुलैः ।
विख्यातोऽर्चायमको द्वादशोत्तरशताङ्गुलः ॥
उष्णीषमङ्गुलं प्रोक्तं त्र्यङ्गुलं शिर उच्यते ।
तालो ललाटाद् गलान्तं सर्वत्रैव मुखे क्रमः ॥
त्र्यङ्गुलं च ललाटं स्यादङ्गुलं नेत्रसूत्रकम् ।
नेत्रसूत्रे तु कर्तव्या नासिका चतुरङ्गुला ॥
गोजका चैकमात्रा स्यादधरं त्रियववान्तरम् ।
ओष्ठो यवैः पञ्चभिः स्याद्धनुः सार्धाङ्गुला भवेत् ॥
विस्तारे वै द्वधङ्गुलं गलमर्धाङ्गुलं मतम् ।
ग्रीवा सार्धाङ्गुला स्तन-सूत्रं त्रयोदशाङ्गुलम् ॥
द्वादशाङ्गुलका नाभि उदरं चतुरङ्गुलम् ।
वलिकात्रयसम्भुक्तं गुह्यमष्टाङ्गुलं तथा ॥
पञ्चमात्रोद्भवं मेढ्रं वृषणश्चतुरङ्गुलः ।
. . . . . ॥
चतुर्विशत्यङ्गुला स्याज्जङ्घा जानुयुगाङ्गुलम् ।
जङ्घामानेन नलको गुल्फः स्याच्चतुरङ्गुलः ॥
उच्छ्रयः कथितश्चैवं मस्तान्तो नवतालकः ।