Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.68
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.68
- Language
- English
v2.c83.68
षट्त्रिंशदङ्गुलो मध्यो विस्तरं शृणु सम्प्रति ॥
चन्द्रोपमं ललाटं स्याद्विस्तारे चाष्टमात्रकम् ।
आयामे द्वयङ्गुले नेत्रे विस्तारे चाङ्गुलयते ॥
नासोर्ध्वं च भवेन्मात्रं द्विमात्रं नयनान्तरम् ।
सार्धाङ्गुला च नासा स्यात्पुटिः स्याद् द्वियवान्तरा ॥
निष्पावसदृशी श्रोत्रपुटिरर्धाङ्गुला तथा ।
पिप्पली पुटितुल्या च पिच्छली\* चतुरङ्गुला ॥(चम्पिका)\*
हनुका द्वयङ्गुलायामे गण्डौ वृत्तौ षडङ्गुलौ ।
द्वादशाङ्गुले विस्तारे कर्णौ चैककमङ्गुलम् ॥
कर्णपाश्र्वं द्विमात्रं च तत्तुल्यं चोन्नतौ भवेत् ।
अङ्गुष्ठाङ्गुलमायामे कर्णौ वै लक्षणान्वितः ॥
हनुकेशान्तयोर्मध्ये मानं षट्त्रिंशदङ्गुलम् ।
ग्रीवाष्टांशा परिणाहे चतुर्विंशतिमात्रका ॥
अष्टाङ्गुलो तथा स्कन्धौ स्तनोधर्वे द्वादशाङ्गुले ।
कक्षास्थानं प्रकोष्ठाम्यां षोडशाङ्गुलमीरितम् ॥
प्रकोष्ठान्मणिबन्धश्चाऽङ्गुलान्यष्टाऽथवा दश ।
सप्ताङ्गुलं करतालं मध्यमा पञ्चमात्रका ॥
तर्जनी चाऽनामिका च हीना च स्याच्चतुर्यवैः ।
अनामिका पञ्चयवैर्हीना सा स्यात्कनिष्ठिका ॥
अङ्गुष्ठं स्याच्चतुर्मात्रं तालार्धं च करोर्ध्वकम् ।
पञ्चाङ्गुलं च विस्तीर्णं कुर्यात्करतलं तथा ॥
अष्टयवान्तरेऽङ्गुष्ठं तर्जनी षड्यवान्तरे ।
मध्याद्यान्तिमान्ताः सप्त षट्पञ्चयवान्तराः ॥
त्रिपर्वकास्तथा सर्वा निम्ना अग्रे सुवृत्तकाः ।
पर्वाध्रेन नखास्ताभ्यस्ताभिः सार्धं विनिर्गताः ॥
सार्धद्विपर्वं चाङ्गुष्ठं पर्वाधं च नखाः स्मृताः ।
कुलरेखा च कर्तव्या अङ्गुष्ठमनुवर्तते ॥
कनिष्ठाधस्तर्जन्यन्तमायूरेखा समीरिता ।
मध्यमा च तथा रेखा धनरेखा तदूर्ध्वताः ॥
त्र्यङ्गुलो मणिबन्धः स्यान्नाहे सार्धदशाङ्गुलम् ।
गजहस्तोपमौ बाहू संस्थितौ च मनोहरौ ॥
विशंत्यङ्गुलकं चैव कक्षयोरुभयान्तरम् ।
सप्ताङ्गुलं भुजस्कन्धः कक्षे चैककमङ्गुलम् ॥
चतुर्दशाङ्गुलो मध्यो नाभ्यूर्ध्वं च षडङ्गुलम् ।
अष्टादशाङ्गुलं नाभेर्र्द्विमुखं चोरूमूलकम् ॥
एकादशाङ्गुला जङ्घा निम्नाग्रे च सुर्वर्तिता ।