Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.72

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.72

Language
English

v2.c83.72

शुभयोगे सुनक्षत्रे सुमुहूर्ते सुलग्नके ।
मन्त्रवत्कारयेद् गतं स्थपतिस्थापकावुभौ ॥
मधूच्छिष्टं योजयेच्छिल्पी शास्त्रतः कारयेत्क्रमात् ।
यथारूपं तथा ध्यात्वा स्थपत्याज्ञया वर्धकिः ॥
यन्मधूच्छिष्टबिम्बस्य पञ्चवर्णैरलंकृतम्
क्षणिकबेरमेवोक्तं चलं चाप्यचलं तथा ॥
तस्मात्सर्वप्रयत्नेन तत्रदोषो न विद्यते ।
अक्षैः स्फटिकसंयुक्तं लूतभाजनमेव च ॥
हस्तेन सर्वबिम्बानां ताम्रपत्रेण योजयेत् ।
अथवा पक्षकानां तु पक्षमूलेन विन्यसेत् ॥
नखसर्वेषु पादौ च संयुक्तं तु ताम्रेण च ।
अथवा शिखशल्यं स्याद् भूषणं च विशेषतः ॥
स्फटिकैः रत्नसंयुक्तं जीनपात्रेण विन्यसेत् ।
आम्रकद्रुमसर्वेषां युक्त्या वर्णं समाश्रितम् ॥
दारुकीलैश्च बिम्बानां यद्बलार्थं तु योजयेत् ।
आद्रव द्रव्यसंयुक्तं तस्माद् दोषमेवं न विद्यते ॥
सर्वालङ्कारसंयुक्तं बेरं ग्रामप्रदक्षिणम् ।
यजमानादि संवेक्ष्य सेव्यं तत्रार्चनं भवेत् ॥
तस्माद् दैवतार्यं संग्राह्य चान्यग्रामे विलासयेत् ।
पश्चात् शिल्पिशालां च बेरमेवं प्रविश्यते ॥
मानोन्मानप्रमाणेन शोभयेच्छल्पवित्तमः ।
द्विय्यङ्गुलमधिकं वाथ मधूच्छिष्टेन लेपयेत् ॥
तदूर्ध्वं मृत्तिकां लेप्य शोषयेत्तद् विचक्षणैः ।
तत्पिण्डमुत्तापयेद्वा मधूच्छिष्टोद्गमैः पुनः ॥
कर्तुरिच्छा यथा लौहैधृतम् एतत्प्रशस्यते ।
पूर्णयेज्जलं संप्रोक्ष्य त्यक्त्वा तदर्थमृत्तिकाम् ॥
बिम्बं सर्वाङ्गं संशोध्य श्वेतगन्धेनानुलेपयेत् ।
तत्पीठोपरि संस्थाप्य पुष्पमाल्यैरलङ्कृतम् ॥
ग्रामं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषवैः ।
शिल्पिशालां विशान्ति कारयेदुक्तवत्क्रमात् ॥
तस्योपाङ्गविहीनं चेत्पुनः सन्तानकं भवेत् ।
शिरो वा मध्यकायं वा हीनं चेद्विसृजेत्पुनः ॥
कर्तुं शिल्प्यचलं चित्तं कारयेत्पूर्ववद् भवेत् ।
चलं चित्ते न कुर्याच्चेत्स्थाननाशं धनक्षयम् ॥
अनेकजन्मार्जितं पुण्यं क्षिप्रमेवं विनश्यति ।
तस्मात्सर्वप्रयत्नेन पूतं च कारयेत्सुधी ॥