Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.73

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.73

Language
English

v2.c83.73

नवतालप्रमाणेन लक्षणेन समन्विताम् ॥
प्रतिमां कारयेत्पूर्वमुदितेन विचक्षणः ।
सर्वावयवसम्पूर्णां किञ्चित्पीतां दृशोः प्रियाम् ॥
यथोक्तैरायुधैर्युक्तां बाहुभिश्च यथोदितैः ।
तत्पृष्ठस्कन्धदेशे च क्रमाच्चामुकुटेऽथवा ॥
हेमपुष्पनिभं दीर्घं तालकं मदनोद्भवम् ।
स्थापयित्वा ततश्चाचां लिम्पेत्संस्कृतया मृदा ॥
मषीं तुषमयीं कृत्वा कार्पासं शतशः क्षतम् ।
लवणं चूर्णितं श्लक्ष्णं तथा संयोजयेन्मृदा ॥
पेषयेत्सर्वमेकत्र सुलक्षणे च शिलातले ।
वारत्रयं तदावर्त्य तेन लिम्पेत्समन्ततः ॥
स्वच्छः स्यात्प्रथमो लेपः छायायां कृतशोषणः ।
दिनद्वये व्यतीते तु द्वितीयस्स्यात्ततः पुनः ॥
तस्मिन् शुष्के तृतीयस्तु निबिडो लेप इष्यते ।
नालकस्य मुखं त्यक्त्वा सर्वमालेपयेन्मृदा ॥
शोषयेत्तत्प्रयत्नेन युक्तिभिर्बुद्धिमान्नरः ।
सिक्थकं तोलयेदादावर्चाग्नं विचक्षणः ॥
रीत्या ताम्रेण रौप्येन हेम्ना वा कारयेत्ततः ।
सिक्थादशगुणं ताम्रं रीतिद्रव्यं च कल्पयेत् ॥
रजतं द्वादशगुणं हेम स्यात् षोडशोत्तरम् ।
मृदा संवेष्टयेद्द्रव्यं यदीष्टं कनकादिकम् ॥
नालिकेराकृतिं मूषां पूर्ववत्परिशोषयेत् ।
वह्नौ प्रताप्य तामर्चां सिक्थं निस्सारयेत्ततः ॥
मूषां प्रतादयेत्पश्चात्पावकोच्छिष्टवह्निना ।
रीतिस्ताम्रं च रसतां नवाङ्गारैर्व्रजेद्ध्रुवम् ॥
तप्ताङ्गारैर्विनिक्षिप्तै रजतं रसतां व्रजेत् ।
सुवर्णं रसतां याति पञ्चकृत्वः प्रदीपितैः ॥
मूषामूर्धनि निर्माण रन्ध्रं लोहशलाकया ।
संदंशेन दृढं धृत्वा तप्तां मूषां समुद्धरेत् ॥
तप्तार्चानालकस्यास्ये वर्तिं प्रज्वलितां न्यसेत् ।
संदंशेन धृतां मूषां नमयित्वा प्रयत्नतः ॥
रसं तु नालकस्यास्ये क्षिपेदच्छिन्नधारया ।
नालकाननपर्यन्तं संपूर्णं विरमेत्ततः ॥
स्फोटयेत्तु समीपस्थं पावकं तापशान्तये ।
शीतलत्वं च यातायां प्रतिमायां स्वभावतः ॥
स्फोटयेन्मृत्तिकां दग्धां विदग्धो लघुहस्तकः ।
यथा द्रव्यमयी साऽर्चा यथा मदननिर्मिता ॥
जायते तादृशी साक्षादङ्गोपाङ्गोपशोभिता ।
यत्र क्वाप्यधिकं पश्येच्चारर्णैस्तत्प्रशान्तये ॥
नालकं छेदयेच्चापि पश्चादुज्ज्वलतां नयेत् ।