Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.74
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.74
- Language
- English
v2.c83.74
मधूच्छिष्टेन निर्माण सकलं निष्कलं तु वा ।
बद्ध्वा मृदा दृढं शुष्कमधूच्छिष्टं बहिः सृजेत् ॥
तत्र लोहार्द्रमापूर्य कारयेल्लौहमुत्तमम् ।
अथ तत्प्रक्रियां वक्ष्ये कर्मकारहिताय तु ॥
कठिना मन्दकठिना मृद्वी मृदुतरा तथा ।
मूषाकरणयोग्येति पञ्चधा मृत्तिका स्मृता ॥
पूर्वोक्तां नाकुजां वाथ मृत्स्नामादाय यत्नतः ।
मृल्लोष्टचूर्णसंयुक्तां यथायुक्ति विमर्दयेत् ॥
शुद्धाम्भसा पूगचर्मसारं युक्त्या सुयोजयेत् ।
कारयेत् कठिनामेवं शिलामुसलताडिताम् ॥
तस्मिन् गोमयसंयुक्ते स्यान्मन्दकठिना पुनः ।
मृद्भाण्डचूर्णसंयुक्तां तत्पादांशकमृत्तिकाम् ॥
पेषण्यां पेषयेद् यां सा मृद्वीति कथिता पुरा ।
तदेव गोमययुता मृत्स्ना मृदुतरा स्मृता ॥
तुषाद्यङ्गारचूर्णेन संयुक्ता घटमृत्तिका ।
कार्पासपटचूर्णेन समं मुसलपीडिता ॥
एषा मूषामृदाख्याता कर्तव्या सानया दृढम् ।
यत्किञ्चिदीप्सितं तन्तु किञ्चिन्न्यूनप्रमाणतः ॥
कृत्वा द्वितीया शुष्के तद्दृष्ट्वा लिप्त्वा पुनः पुनः ।
अन्ते गोमयसारेण लिप्त्वा श्लक्ष्णीकृते पुनः ॥
कृत्वा तस्मिन् मधूच्छिष्टपट्टं युक्तधनान्वितम् ।
इष्टप्रमाणं तत् सर्वं कृत्वा तेन सलक्षणम् ॥
भूषणादीनि सर्वाणि मधूच्छिष्टस्य तन्तुना ।
कृत्वा तिन्तिणिसारेण वेणुसारेण वा तथा ॥
कृतेन युक्तशस्त्रेण सुस्निग्धं कारयेदथ ।
पुनर्विलेपयेन्मृत्स्नामाद्र्र्रा मृदुतरं क्रमात् ॥
शुष्के तस्मिन् पुनर्लिप्त्वा मृद्वचा संशोषयेत् पुनः ।
कठिनेन पुनस्तत्र कृष्णायसपटादिभिः ॥
बद्ध्वा यथाबलं पश्चात् कठिनेन विलेपयेत् ।
आवृत्त्या लेपयेत् तेन यथातोषं यथाबलम् ॥
अप्रधानावयवगस्थाने स्याल्लोहपद्धतिः ।
एवं शुष्के पुनर्यन्त्रव