Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.78
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.78
- Language
- English
v2.c83.78
मांसवर्णैर्नखैर्वाथ पद्मताम्रनिभैस्तथा ।
संयुक्ताः प्रतिमा यत्र तत्रस्थाः सुखिनो नराः ॥
श्वेतैर्नखैर्दुःखिनश्च शूलाग्रैः स्फटिकोपमैः ।
दरिद्रतां भजन्त्येव तथैव हरितैर्नखैः ॥
(अंगुल्यः) प्रोन्नताग्राश्चेद् भवन्ति सुखदाः सदा ।
पादाङ्गुष्ठमतिक्रम्य प्रदेशिन्यनिवर्तयेत् ? ॥
लभन्ते तत्रदेशस्था नारीभोगमनुत्तमम् ।
कनिष्ठायों तु दीर्घायां बहुवित्तकरो भवेत् ॥
अङ्गुल्यः कुटिलाः शुक्ला विरला दुःखभागिनः ।
अस्वेदनौ मृदू रक्तौ पुष्पौ चारुदलाविव ॥
लग्नाङ्ग ली सुपाष्णीं च सिराविरहितौ तथाँ ।
मांसलौ गूढ़गुल्फौ च कूर्मपृष्ठसमावपि ॥
भवेतां चरणौ यस्य तत्रस्था राजवल्लभाः ।
विवृतौ शूर्पसङ्काशौ सस्वेदौ ह्रस्वपाण्डरौ ॥
रोमशौ चरणौ यस्य तत्रस्था दुःखभागिनः ।
वीर्घपादतले रेखा हलाङ्कुशनिभा यदि ॥