Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.79

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.79

Language
English

v2.c83.79

सार्वभौमत्वदं लक्ष्म तदिदं नात्र संशयः । क्रमाद् वृत्ते प्रशस्येते जङ्घे स्निग्धे त्वरोमके ॥ सिंहव्याघ्रोपमे जङ्घे धनिनां परिकीर्तिते । काकजङ्घो भवेद्राजा मृगजङ्घोऽपि तादृशः ॥ जङ्घे च मीनवद् यस्य सोऽपि साम्राज्यभाग्जनः । स्थूलजङ्घा दीर्घजङ्घा जायन्तेः पथिगाः सदा ॥ सृगालकोलजङ्घा ये ते नरा दुःखभागिनः । इदं तु बिम्बे सञ्चिन्त्यं तथा वृत्ते च जानुनी ॥ मांसले च समे शब्दहीने गूढतरास्थिनी । किंचिदुन्नतयुक्ते तु भवेतां सर्वमङ्गले ॥ ऊरु करिकराकारौ रोमभिः परिवर्जितौ । सुलक्षणौ निविडौ नातिस्थूलौ नातिकृशौ वरौ ॥ सुखदं मांसलं स्फिक् चेद् व्याघ्रिभेकस्फिगेव हि । तथैव दुःखदं ज्ञेयं शुष्कस्फिङ् नैव संशयः ॥ मृगेन्द्रकटिसंकाशकटिश्चेत् पार्थिवत्वदा । कामित्वं स्थात् कोलकटेः … … … ॥ कर्कटोष्ट्रकटिस्तद्वत् श्वकटित्वं सुतापहम् । मेहनं धनदं ह्रस्वं स्थूलं पुत्रार्थनाशनम् ॥ (अ ? पु) त्रवृद्धिकरं ज्ञेयमेतद् दक्षिणतोन्नतम् । मणिनौ सोन्नते स्निग्धे धनस्त्रीरत्नभाजनम् ॥ मध्यनिम्ने भवेन्निःस्वो मध्यादग्रे विशेषतः । ईशद्रक्ते समृद्धिःस्यात् पाण्डरे धनहीनता ॥ मणौ च मलिनच्छापे दारिद्र्यमुपजायते । मुष्कयोरुभयोःसाम्ये राजराजत्वमाप्नुयात् ॥ लम्बयोर्ह्र स्वयोश्चैव मुष्कयोदीर्घजीविनः । एकं एवं यदा मुष्कस्तदा स्यान्मरणं जलात् ॥ वृत्तविस्तीर्णगम्भीरनाभौ सुखमतीव हि । विषमा बिलमध्यस्था नाभिर्दारिद्र्यकरिणी ॥ दक्षिणावर्तनी शस्ता बामावर्ताधिकारिणी । लम्बोदरो भवेदाढ्यो बहुभोगःसमोदरे ॥ कृशोदरे लघुःकामी दुःखभागी महोदरे । घटोदरे भवेन्निस्वस्तथैव विकृतोदरे ॥ सर्पोदरे दरिद्रत्वं तथा निम्नोदरेऽपि च । वल्यैक्या शस्त्रमृत्युः स्त्रीजितत्वं बलिद्वये ॥ आर्यःस्यात् त्रिवलीयुक्ते पुष्टं चतुर्वलीयुते । सुतुल्यौ धनदौ पाश्वौ निर्धनाख्यौ च वक्रकौ ॥