Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.82
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.82
- Language
- English
v2.c83.82
शंखातिपत्रशिबिकागजपद्माश्वसन्निभः ॥
चक्रवर्ती भवेद्राजा जायते नास्ति संशयः ।
गवाढ्यो दामरूपाभिः स्वस्तिकाकृतिभिर्धनी ॥
चक्रखड्गधनुःप्रासतोमराकृतिभिर्नृपः ।
अङ्गुष्ठमूलरेखाभिः स्थूलाभिः पुत्रवान् भवेत् ॥
तत्रत्यसूक्ष्मरेखाभिः कन्यां जनयति ध्रुवम् ।
प्रदेशिनीतलं प्राप्तरेखा स्युः शतजीविनः ॥
न्यूनाभिश्चछन्नरूपाभिर्दु मपाताद् भवेन्मृतिः ।
अरेखा ब्ुरेखाश्च मानवा धनवर्जिताः ॥
नखा दन्ता रोमकैश्योमच्छ याः सुखप्रदाः ।
समन्ताद् भूमिसंलग्नं यस्याश्चरणयोस्तलम् ॥
अष्टौ पुत्रान्प्रसूते सा पत्युः सन्तानवर्धनात् ।
अङ्गुष्ठं समतिक्रम्य दीर्घा यस्याः प्रदेशिनी ॥
संरक्षितापि यत्नेन सा भवेद व्यभिचारिणी ॥
दीर्घा स्यान्मध्यमा यस्याः सर्वा वा चरणाङ्गुली ॥
दुःशीला दुर्भगा नित्यं सा कन्या निन्दिता बुधैः ।
काकजङ्घा च या नारी या च रोमशजङ्घिका ॥
अचिरेण परिज्ञेयं वैधव्यमुभयोस्तयोः ।
अंसौ च पृथुलौ यस्याः सा दासी समुदाहृता ॥
ऊरू कृशौ रोमशौ वा यस्याः स्यातां भुजावपि ।
भर्तारं त्वरितं हन्ति विवाहे सापि वर्जिता ॥
अश्वत्थदलसंकाशं गूढगुह्यमणिस्थितम् ।
यस्याः सा सुभगा कन्या धन्या पुण्यैरवाप्यते
नितम्बविम्बभृद् दृष्टं विस्तीर्णं शस्यते स्त्रियाः ।
मध्यं वलित्रयोपेतं कृशं शुभमरोमशम् ॥
स्तनौ वृत्तघनौ शस्तावुरो रोमविवर्जितम् ।
ग्रीवा रेखात्रयोपेता बिम्बाकारोऽधरोऽधरः ॥
ग्रीवया स्थूलया चण्डी दरिद्रा ह्रस्वया तया ।
कुलस्य नाशिनी निम्नदीर्घया जायते पुनः ॥
श्ममश्रुभिः सहिता कन्या विषमश्रवणा च या ।
सा विरुद्धा भवेद् भर्तुरुत्तरोष्ठ तथोन्नता ॥
विषमा दशना यस्या विरलाः स्थौल्यभागिनः ।
पूर्वाचाय परिज्ञेया सर्वक्लेशकरी परा ॥
द्वितीयचन्द्र संकाश भ्रूयुगा समनासिका ।
ऋज्वङ्गुलीका रमणी पत्युः संपत्करी सदा ॥
पार्श्वे गले ललाटे वा वामतो लाञ्छनान्विता ।
तस्मिंस्तिलकिता चापि जनयेत् प्रथमं सुतम् ॥