Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.81

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.81

Language
English

v2.c83.81

समाल्प ... ...दुखिनो मानवा स्मृताः ॥
शङ्कुकर्णो महाभागो रोमकणोः शतायुषः ।
विस्तीर्णकर्णा धनिनः सिंहकर्णस्तु निष्ठुरः ॥
कृपणाः ह्रस्वकरणाः स्युः सुभगाःश्यामर्णकाः ।
समाल्पविवरा मूर्ध्नि नासा भाग्यप्रदायिनी ॥
धनिनः पद्मपत्राक्षा रक्तान्ताक्षास्तु श्रीप्रदाः ।
महाक्षा मधुपिङ्गाक्षा गजाक्षाश्च महत्तगः ॥
गम्भीरनेत्राः धनिनः स्थूलाक्षश्चैव तत्समः ।
शुभगा श्यामनयना बुधा नीलोत्पलेक्षणाः ॥
अधोदृष्टिश्चोर्ध्वदृष्टिः सततं दुःखदा नृणाम् ।
पार्श्वदृष्टिश्च तत्तुल्या समदृष्टिः शुभावहा ॥
जिह्माःस्युःसारमेयाक्षास्तस्करा मर्कटेक्षणाः ।
निःस्वा निर्गतनेत्रा स्युः पापा मार्जारलोचनाः ॥
भ्रुवो + अत्यन्तयाल्पायुर्विशालोन्नतया सुखी ।
भ्रुवा विषमया निःस्वो बालेन्दुन्नतया धनी ॥
उन्नतैर्विपुलैर्शंखैर्भवन्ति वशिनो नराः ।
निम्नयाश्चेन संत्यक्तास्तनयैश्च विवर्जिताः ॥
ललाटैश्चिषमैर्निःस्वा धनिनोऽर्धेन्दुसन्निभैः ।
केशैरैकैकशो जातैः स्निग्धै कृष्णैश्च कुंचितैः ॥
अभिन्नायैश्च मृदुभिर्बहुभिस्तैर्महीपतिः ।
एकमूलैश्च बहुभिर्विषमैरतिपिङ्गलैः ॥
स्थूलैर्विशीर्णपर्यन्तैर्ह्रस्वै रूक्षैर्दरिद्रता ।
एकैकेन भवेद्रोम्णा राजा द्वाभ्यां तु पण्डितः ॥
त्रिभिर्निःस्वश्चतुर्भिस्तु सर्वदा दुःखभाग्जनः ।
सिंहेभवृषहंसानां गमनं शुकवर्हिणोः ॥
गमनेनासुकुरुते यो नरः स महीपतिः ।
मेषोष्ट्रमहिषोलूकवराहबलिभुक्छ्वभिः ॥
समाना स्याद् गतिर्यस्य स पुमान्भाग्यवर्जितः ।
अङ्गुष्ठमध्यसन्धिस्य यवेन स्याद्धनी नरः ॥
अगुष्ठमूलगेनापि बहुपुत्रो निरूप्यते ।
स्निग्धाभिः कररेखाभिर्निम्नाभिर्धनवान्भवेत् ॥
अस्निग्धाभिरनिम्नाभिर्भवेद् दारिद्र्य भाग्जनः ।
मणिबन्धोत्थिता रेखास्तिस्रः करतलं गताः ॥
राज्यकारणमित्याहुः सामुद्रमतवेदिनः ।
मीनयुग्मकरः सत्री मीनपुच्छकरः सुखी ॥
आकारो जायते पाणौ रेखया वक्ररूपया ।