Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.887

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.887

Language
English

v2.c83.887

विद्रुमप्रभमेकमुखं विभुं वज्रशक्तिवरदाभयपाणिम् ।
देवलोकरिपुघ्नमविघ्नदं नौमि रुद्रभवं शिखिवाहम् ॥
दाडिमीपुष्पसङ्काशं गुञ्जाभं कुङ्कुमाकृतिम् ।
षड्वक्त्रसहितं देवं द्वादशाक्षं सुयौवनम् ॥
चतुर्भुजमुदाराङ्गं यज्ञसूत्रेण संयुतम् ।
वरदाभयसंयुक्तं कमण्डलुकधारिणम् ॥
नक्रकुण्डलसंयुक्तं करण्डमकुटोज्ज्वलम् ।
हारकेयूरकटककटिसूत्रैर्विभूषितम् ॥
रत्नविद्रुमभूषाढ्यं छत्रवीरसमायुतम् ।
पादनूपुरसंयुक्तं सर्वाभरणभूषितम् ॥
सर्वलक्षणसंयुक्तं कुमारं शङ्करात्मजम् ।
महाबल्लीदेवसेनायुक्तं सुरगणप्रियम् ॥
इत्थं रूपं यजेन्नित्यं सर्वलोकहितावह्म् ।
चतुर्भुजं बालवेषं स्कन्दं कनकसुप्रभम् ॥
शक्तिकुक्कुटहस्तं च वरदाभयसंयुतम् ।