Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.888

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.888

Language
English

v2.c83.888

विद्रुमनिभ द्वादशहस्त रविनेत्र
शक्तिकरखड्गमभग्रध्वजगदां च ।
वामकरचापकुलिशाब्जवरशूल—
खेटधरसव्यकर षण्मुख नमस्ते ॥
षड्वक्त्रं शिखिवाहनं त्रिनयनं रक्ताम्बरालङ्कृतं
शक्तिं चर्म च खड्गशूलविशिखाभीतिं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं तथा
ध्यायेदीप्सितसिद्धिदं शशिधरं स्कन्दं सुराराधितम् ॥
लोकालोकान्धकारप्रतिहतकिरणैर्भानुकोटिप्रकाशं
भूमिन्यस्तैककोटीष्वसनमपि शरं लम्बमानोर्ध्वकायम् ।
हस्ताभ्यां चेतराभ्यां धृतमथ कुलिशं शक्तिमम्भोरुहाक्षं
सर्वालङ्कारयुक्तं भजत सुरपुरीपालकं बाहुलेयम् ॥