Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.891

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.891

Language
English

v2.c83.891

गुहस्य स्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् ।
पुरादेर्मध्यमे वाग्नौ यमे वा मध्यमे तयोः ॥
नैरृते वरुणे वायौ सोमे शर्वेऽथवा भवेत् ।
अन्तरालेऽथवा तेषां शिवधाम्न्येवमेव वा ॥
अन्यदेवालयेष्वेवमथवा पर्वतोपरि ।
पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ॥
राजधान्यादिके वाथ पुण्यक्षेत्रे गृहेषु वा ।
प्रासादमण्डपादीनां देशे पुण्यतरुष्वथ ॥
कुमारालय इष्टस्स्याद्वामलक्षणलक्षितः ।
अथैकादित्रयस्त्रिंशद्धस्तविस्तारसंयुतः ॥
त्रेतायां नवहस्तोर्ध्वं विस्तारो नेष्यते द्विजाः! ।
दिङ्न्यस्तस्कन्दरूपाढ्यः केवलौ व तदालयः ॥
रुद्रोमाविघ्नरूपाढ्यस्तवथवा हंसकोणयुक् ।
गजकोणोऽथवा स स्यात् केवलो वा गुहालयः ॥
एकभूम्यादिसप्तान्ततलैष्विष्टतलान्वितः ।
शिवोक्तमार्गसंकॢप्तगर्भाद्येष्टकयान्वितः ॥
तद्वन्मूर्धेष्टकास्थूणिप्रतिष्ठाभ्यां समायुतः ।
धाम्नस्संस्थापनेनाढ्यः प्रागुक्तविधिना सह ॥