Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.892
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.892
- Language
- English
v2.c83.892
प्रागुक्तमण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ।
पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा ॥
परिवाराभरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ।
यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् ॥
गन्धर्वः किन्नरो दैत्यनायको दानवाधिपः ।
क्रमात्पूर्वादिशर्वान्तास्स्थिता ऽते चतुर्भुजाः ॥
वरदाभयसंयुक्ताः खड्गखेटसमन्विताः ।
खड्गखेटसमायुक्ता द्विभुजा वाऽब्जनप्रभाः ॥
भीमरूपास्सुशान्ता वा बद्धकेशास्तु वा मताः ।
शकुनी पूतना चैव रेवती चार्यपूतना ॥
वक्त्रमण्डिनि शान्ता च एता देवाष्टमूर्तयः ।
षण्मुखश्शक्तिपाणिश्च कार्तिकेयो गुहस्ततः ॥
स्कन्दो मयूरवाहस्स्यात्सेनानीश्शक्तिहस्तवान् ।
एते वा मूर्तिपास्तस्य कृताञ्जलिपुटान्विताः ॥
वज्रपद्मधरास्सर्वे स्कन्दोक्तलक्ष्णसंयुताः ।
चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैकवक्त्रकाः ॥
एते वा परितस्स्थाप्याः क्रमात्पूर्वादियोगतः ।
इन्द्रादीन्वाष्टपीठं वा मयूरं वाग्रतो गजम् ॥
विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ।
बलिपीठं च शर्वोक्तान्परिवारांस्तु वान्यसेत् ॥
बलिपीठदलेष्विन्द्रपूर्वान्मध्ये ग्रहेश्वराः ।