Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.97

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.97

Language
English

v2.c83.97

विहङ्गराजमानं च लक्षणं वक्ष्यतेऽधुना ।
. . . . . ॥
नासिका शुकतुण्डं पदाग्रे
हंसकास्यदंष्ट्रवत्कुर्यात् ।
श्वेतवर्णनखैरपि वक्त्रयुक्तं
श्यामवर्णमति तुण्डाग्रके ॥
अष्टनागविभूषणपक्षिवत्पक्षयुक्त
उग्रदृक् मकुटं सकरण्डकम् ।
वर्णनोलसमरत्नमण्डलं कृतम्
तप्तहेमनिभं गरुडं भवेत् ॥
पञ्चवर्णसमन्वितपक्षयुक्त
अङ्कुरवत्कर्णशिरावृतम् ।
कुञ्चितः सहितगमनेऽपि च
सञ्चितस्थितभावमिति स्मृतम् ॥
मूर्ध्नि शङ्खं क्षीरवर्णावृतं च
वामे कर्णे पद्मवर्णाभपद्मम् ।
सव्ये कर्णे तन्महापद्ममेव
धूम्रवर्णं हारकार्कोटकं च ॥
गुडिकस्कन्धौ लम्बयेत्कृष्णसर्पम्
चासृकवर्णं वा सङ्गिवक्त्रसूत्रम् ।
अत्यन्तं शुक्लवर्णाभं वामप्रकोष्ठे
हिरण्यवर्णं तार्थ्यस्य कटकम् ॥
केचित्तच्छिद्यार्थं तु तार्थ्यं वर्णं विशेषतः ।
केशान्तात्कर्णसीमान्तं श्यामनीलाग्रसीमंकम् ॥
भित्तिकांहृदयान्तं च तद्द्वयं कूर्परान्तकम् ।
पञ्चवर्णसमं श्रितपक्षकांशु ककञ्चुकी ॥
हृदयात्कटिसूत्रान्तं प्रकोष्ठदिकराग्रयोः ।