Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.98

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.98

Language
English

v2.c83.98

पीतवर्णमिति प्रोक्तं तस्योरुजानुकान्तकम् ॥
रक्तवर्णं तु पादान्तं श्वेतवर्णनिभं भवेत् ।
द्विभुजाग्रं च वक्त्रं च द्विपादौ कुञ्चितौ भवेताम् ॥
स्थानकं चासनं वापि विष्णुं ध्यायेत् कृताञ्जलिः ।
सर्वालङ्कारसंयुक्तं ग्रामे स्थाप्यं स्वतन्त्रकम् ॥
एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीः ।
अभिचारादिकाम्यार्थं तार्क्ष्य रूपं विशेषतः ॥
पादं स्थानकं कुर्याद् वक्त्रं चासनं भागतः ।
सर्वाङ्गं स्वर्णवर्णं स्यात्पक्षकञ्चुकिकपूर्वकम् ॥
वपुषं तु निर्वाणमधोहस्तौ कृताञ्जलिम् ।
शीर्षं च सिंहवक्त्रं च संयुक्तं पञ्चवर्णयुक् ॥
नाभिषेकं शिर ऊर्ध्वं तु कुक्कुटस्य शिरोऽग्रवत् ।
रक्तवर्णं तु पुच्छाग्रं पञ्चमात्रं तदायतम् ॥
घनं चोर्ध्ववक्त्रं च न प्रच्छादनमास्यकम् ।
सप्ताष्टपूर्ववत्साङ्गैर्वर्णवपर्यं विश्वतः ॥
सङ्ग्रामे क्षेत्रसीमान्ते चान्यत्र निरीक्षणम् ।
क्षणिकालयं संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥
त्रिनाडि त्रिदिने वापि त्रिपक्षे वा त्रिमासके ।
नित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥
रिपुसंग्रहणार्थं चेद्धस्तौ रात्रौ च कारयेत् ।
युद्धकाले रिपुभवस्तम्भं हस्तौ च बन्धनम् ॥
शिलामृण्ममये वापि दारुजे कट शर्करया ।
एतैः वैनतेयं च वर्णसंस्कारमेव च ॥