Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.32
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s2.32
- Language
- English
v2.c83.s2.32
अश्विनौ तौ ततो ज्ञेयौ दण्डनायकपिङ्गलौ ।
तौ सूर्यद्वारपौ ज्ञेयौ राज्ञस्त्रीषो ततस्मृतौ ॥
रेवतश्चैव दिण्डिश्च इत्येते प्रवरा मया ।
अष्टादश समाख्यातास्संक्षेपात्संख्यया मया ॥
दण्डी च पिङ्गलश्चैव ह्यानन्दो नन्दकस्तथा ।
चित्रो विचित्रो ज्ञातव्याः किरणाक्षःसुलोचनः ॥
सर्वे ते पुरुषाकाराः कर्तव्यः शान्तिमिच्छता ।
अष्टौ स्युश्च चतुर्द्वाःसु सव्यदक्षिणतः क्रमात् ॥
तर्जनी किरणश्चैव ताम्रचूडश्च दण्डकः ।
दण्डी नाम तथा वामे शृणु पिङ्गलकस्य च ॥
शक्तिश्च किरणस्थाने ताम्रचूडपदेंशकः ।
पूर्ववत् तर्जनीदण्डौ पिङ्गलः पूर्वदक्षिणे ॥
तर्जन्यौ द्वे वज्रदण्डावानन्दक इति स्मृतः ।
तर्जनी दण्डापसव्ये संभवे दन्तकस्तथा ॥
द्वे तर्जन्यौ पद्मदण्डौ वामातश्चित्रकः स्मृतः ।
तर्जनी दण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥
तर्जन्यौ किरणो दण्डः किरणाक्षस्तथैव च ।
तर्जनी दण्डापसव्यौ प्रतीहारः सुलोचनः ॥
इत्यष्टौ च प्रतीहाराः सर्वविघ्नप्रणाशनाः ।
सर्वे तेजोमया नित्यं सूर्यदेवप्रत्यत्मकाः ॥
तर्जन्यंगुताम्रचूडदण्डैर्दण्डी तु वामतः ।
तर्जनीशक्ति किरणदण्डैस्स्यात्पिङ्गलः परः ॥
द्वे तर्जन्यौ वज्रदण्डावानन्दो वामगो दधत् ।
तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥
द्वे तर्जन्यौ पद्मदण्डौ चित्रो धत्ते स वामतः ।
तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥
तर्जन्यौ किरणं दण्डः किरणाक्षस्तु धारयेत् ।
तर्जनीदण्डापसव्ये प्रतीहारस्सुलोचनः ॥
चतुर्द्वारेषु संस्थाप्या दिशास्वेते प्रदक्षिणम् ।