Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3.41
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s3.41
- Language
- English
v2.c83.s3.41
ऐडूकरूपनिर्माणं शृणुष्व गदतो मम ।
ऐडूकपूजनात्पूजा कृतस्य जगतो भवेत् ॥
भद्रपीठं बुधः कुर्यात्सोपानैः शोभनैर्युतम् ।
चतुभिर्यादवश्रेष्ठ यथादिशमरिन्दम् ॥
तस्योपरिष्टादपरं भद्रपीठं तु कारयेत् ।
तस्योपरिष्टादपरं तादृग्विधमरिन्दम् ॥
तस्योपरिष्टात्कर्तव्यं लिङ्गरूपं विजानता ।
तत्तु तत्रापि कर्त्तव्यं लिङ्गरेखाविराजितम् ॥
तस्य मध्ये ध्रुवां यष्टिं चतुरस्रां तु कारयेत् ।
तस्योपरिष्टात्कर्तव्या भूमिकास्तु त्रयोदश ॥
तस्योपरिष्टात्कर्तव्यं तथैवामलतारकम् ।
तस्योपरि पुनर्यष्टिः कार्या राजन्सुवर्तुला ॥
समार्धचन्द्रमध्यस्थचन्द्रकेण विराजिता ।
भूमिका या मया प्रोक्ता तथैवामलतारकम् ॥
भुवनास्ते त्वया ज्ञेयास्तथा राजंश्चतुर्दश ।
लिङ्गे महेश्वरो देवो वृत्ता यष्टिः पितामहः ॥
चतुरस्रा तु या यष्टिः स च देवो जनार्दनः ।
गुणरूपेण विज्ञेयं भद्रपीठत्रयं तथा ।
गुणाधानमितिप्रोक्तं त्रैलोक्यं सचराचरम् ।
अधस्ताद्भुवनानां तु लिङ्गोपरि तथा नृप ॥
लोकपालांश्च कर्तव्याः शूलहस्ताश्चतुर्दिशम् ।
विरूढो धृतराष्ट्रश्च विरूपाक्षश्च यादवः ॥
कुबेरश्च महातेजाः सूर्यवेशधराः शुभाः ।
सर्वे कवचिनः कार्याः शुभानरणभूषिताः ॥
विरूपाक्षं विजानीहि शक्रदेवं गणेश्वरम् ।
धृतराष्ट्रं विजानीहि यमं भुवननायकम् ॥
विरूपाक्षं विजानीहि वरुणं यादसाम्पतिम् ।
राजराजं विजानीहि कुबेरं धनदं प्रभुम् ॥