Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.26
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.26
- Language
- English
v2.c84.26
त्रिप्रकारेष्टिकाचूर्णं त्र्यंशं क्षिप्त्वा मृदस्ततः ।
गुग्गुलं समधूच्छिष्टं मुरुक्कं गुडम् ॥
कुसुम्भं तैलसंयुक्तं कृत्वा दद्यात्समागंशकम् ।
त्रिभागमग्निदग्धांया सुधायास्तत्र चूर्णयेत् ॥
बिल्वजं द्वयंशमिश्रं तत्प्रक्षिप्य मषकं कषम् ।
बालुकांशं ततो दद्यात्स्वानुरूपेण बुद्धिमान् ॥
ततः शकलतोयेन प्लावयेत्पिच्छिलेन तम् ।
परिक्लिन्नं समग्रं तन्मासमाचं निधापयेत् ॥
मार्दवं मासमात्रेण गतमुद्धृत्य यत्नतः ।
दद्यात्प्रलेपं निपुणः शुष्कं कुड्ये विमृश्य तु ॥
श्लक्ष्णं समं स्ववष्टब्धं निम्नोन्नतविना कृतम् ।
न चातिघनतां यातं न चातितनुताङ्गतम् ॥
यदा शुष्कं भवेत्कुड्यं तत्प्रलिप्तमसत्कृतम् ।
तया मृदा सर्जरसा तैलभागावियुक्तया ॥
श्लक्ष्णीकुर्यात्प्रयत्नेन लेपनैः श्लक्षणमञ्जनैः ।
मुहुर्मुहुश्च क्षीरेण सिक्त्वा मार्जनयत्नतः ॥
सद्यः शोषमुपायातं कुड्यं तन्मनुजेश्वर ।
अपि वर्षशतस्यान्ते न प्रणश्येत् कर्हिचित् ॥
अनेनैव प्रकारेण द्विविधैवर्णकैर्युताः ।
कर्तव्याश्चित्रवपुषा विविधा मणिभूमयः ॥
कुड्ये शुष्के तिथौ शस्ते रूक्षे च गुणसंयुते ।
चित्रायोगे विशेषेण श्वेतवासा यतात्मवान् ॥
ब्राह्मणान्पूजयित्वा तु स्वस्ति वाच्य प्रणम्य च ।
तद्विद्वेश्च यथान्यासं गुरुंश्च गुरुवत्सलः ॥
प्राङ्मुखो देवताध्यायी चित्रकर्म समाचरेत् ।
श्वेतकाद्रवकृष्णाभिर्वर्तिकाभिर्यथाक्रमम् ॥
आलिख्य स्थापयेद्विद्वान्प्रमाणे स्थानके तथा ।
ततस्तु रञ्जयेद्रङ्गैर्यथास्थानानुरूपतः ॥
श्यामा गौरी तथा तस्यच्छविः स्यात्तां प्रदर्शयेत् ।
तस्याश्च लक्षणं प्रोक्तं प्राप्ताया नृप विस्तरे ॥