Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.25

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.25

Language
English

v2.c84.25

तत्कल्कं चिक्कणीभूतं शलाकाः परिकल्पयेत्‌
यत्नेन शोषयेत्पश्चाद्यावत्काठिन्यमाप्नुयुः ॥
वज्रलेपो मयाऽख्यातः चित्रे सर्वत्र शस्यते ।
तं कृत्वा मृत्तिकापात्रे तोयं क्षिप्त्वा प्रतापयेत्‌ ॥
स तप्तो द्रवतां याति सर्ववर्णेषु तद्द्रवः ।
मिश्रणीयप्रमाणेन यथा वर्णो न नश्यति ॥
आदाय मृत्तिकां श्वेतां वज्रलेपेन मिश्रयेत्‌ ।
तया लेपं प्रकुर्वीत शुष्कभित्तौ त्रिवारतः ॥
शङ्खचूर्णसितापिष्टं वज्रलेपसमन्वितम्‌ ।
आदाय भित्तिकां लिम्पेद्यावत्सा श्लक्ष्णतां व्रजेत्‌॥
धातुं नीलगिरौ जातं श्वेतं चन्द्रसमप्रभम्‌ ।
नगनाम्नैव विख्यातं शिलायां परिपेषितम्‌ ॥
मिश्रितं वज्रलेपेन समादाय च पाणिना ।
लिम्पयेन्मृदुलेपेन स्वच्छमच्छं शनैश्शनैः
लिपेत् कुड्यं ततश्चित्रं लेपयेदथवा पुनः ।
दग्ध्वा शङ्खादिकं काष्ठैश्चूर्णितं यत् सुधा हि सा॥
++ चूर्णं ++ चतुर्थांशमुद्गक्वाथलवैःसह ।
गुलतोयेन संसिञ्चेत् तच्चूर्णं बालुकान्वितम् ॥
++++ प्रमाणं हि सुधातुर्यांशमानतः ।
कालाग्निपक्वकदलीफलपिष्टं तु योजयेत् ॥
तत्पिष्टस्य प्रमाणं हि सुधावेदांशकं स्मृतम् ।
द्रोण्यां क्षिप्त्वाथसम्मद्य गते मासत्रये पुनः ॥
पेषयेद् दृषदि क्षिप्त्वा दृषदा गुलवारिणा ।
नवनीतमियायाति यावत् तावत् सुपेषयेत् ॥
अथ कुड्यादिकं सम्यग् संशोध्य समतां नयेत् ।
नालिकेरत्वचाग्रैः सुसूक्ष्मं शिथिलीकृतैः ॥
पुनस्तद्गुलतोयेन सिक्त्वा नीत्वा दिनाल्पकम् ।
पश्चात् तत्र सुधापिष्टं तत्र दर्व्या विलेपयेत् ॥
दर्व्याकारविशालादि सर्वमौचित्यभेदतः ।
लोही दारुमयी वाथ श्लक्ष्णपृष्ठा भवेदिह ॥
तद्दवीं पृष्ठभागेन निम्नोन्नतविवर्जितम् ।
लिप्त्वा पिष्टसुधां सम्यङ्मन्दं मन्दं पुनःक्रमात् ॥
नालिकेरत्वचालिप्य शुद्धतोयसमन्वितम् ।
शुष्के तस्मिन् वर्णलेपं कुर्यात् चित्रार्थमेव हि ॥
फलकादौ तक्षणेन स्निग्धे वर्णं विलेपयेत् ।
सुधालपो न कर्तव्यश्चित्रार्थं फलकादिषु ॥