Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.40
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.40
- Language
- English
v2.c84.40
मध्वक्षश्चन्द्रगौरस्तु नागराजभुजो बली ।
हंसगामी सुमध्यश्च हंसश्च सुमुखो भवेत् ॥
रोमरुद्धकपोलस्तु गजगामी महामतिः ।
वृत्तोपचितबाहुस्तु भद्रः पद्मनिभो भवेत् ॥
मुद्गश्यामस्तु मालव्यः कृशमध्यस्तनुच्छविः ।
आजानबाहुः पीनांसो दन्तघोणो महाहनुः ॥
शरदगौरस्तु रुचकः कम्बुग्रीवो महामतिः ।
सत्यस्तु सिकतश्चैव बलवांश्च प्रकीर्तितः ॥
रक्तश्यामस्तु शशकः किञ्चित्कर्बुरकस्तथा ।
पूर्णगण्डश्च चतुरो मध्वक्षश्च प्रकीर्तितः ॥
अङ्गप्रत्यङ्गमानेन यथा पञ्च नराः स्मृताः ।
स्त्रियः पञ्च तथा ज्ञेयास्ता एव मनुजोत्तम ॥
पुरुषस्य समीपस्था कर्तव्या योषिदीश्वर ।
नरस्कन्धप्रमाणेण कार्यैका सा यथामिति ॥
अङ्गुली द्वौ नरात्क्षामं स्त्रियो मध्यं विधीयते ।
अधिका च कटिः कार्या तथैव चतुरङ्गुलम् ॥
उरःप्रमाणतः कार्यौ स्तनौ नृप मनोहरौ ।
नृपाश्च सर्वे कर्तव्या महापुरुषलक्षणाः ॥
जालपादकराः कार्यास्तथा वै चक्रवर्तिनः ।
ऊर्णेयं च ध्रुवोर्मध्ये तेषां कार्यं तथा शुभम् ॥
रेखाश्च करयोः कार्यस्तिस्रो राज्ञां मनोहराः ।
शशक्षतजसङ्काशाः शस्त्रा वै क्षामकोटकाः ।
तदङ्गमङ्गिनः सूक्ष्मा निजस्नेहाभ्यलङ्कृताः ।
घनेन्द्रनीलसदृशाः केशाः कार्यास्तथा शुभाः ॥
कुन्तला दक्षिणावर्तस्तिरङ्गा सिंहकेसराः ।
वर्धरा जूटटसरा इत्येताः केशजातयः ॥
चापाकारं भवेन्नेत्रं मत्स्योदरमथापि वा ।
नेत्रमुत्पलपत्राभं पद्मपत्रनिभं तथा ॥
शानाकृतिर्महाराज पञ्चमं परिकीर्तितम् ।
चापाकारं भवेन्नेत्रं प्रमाणेन यथा स्त्रियः ॥
मत्स्योदराख्यं कथितं तथा यवचतुष्टयम् ।
नेत्रमुत्पलपत्राख्यं प्रमाणात्सप्तयवं स्मृतम् ॥
पद्मपत्रनिभं नेत्रं प्रमाणेन यवा नव ।
शशाकृतिं च विज्ञेयं तथैव च यवा दश ॥
स्वमानाङ्गुलमानस्य यवमानं प्रकल्पयेत् ।
चापाकारं भवेन्नेत्रं योगभूमिनिरीक्षणात् ॥