Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.42

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.42

Language
English

v2.c84.42

नेत्रमुत्पलपत्राभं रक्तान्तं कृष्णतारकम् ।
प्रसन्नं दीर्घपक्ष्मान्तं मनोज्ञं नृपसत्तम ॥
देवतानां करं राजन् प्रजाहितकरं भवेत् ।
समे गोक्षीरवर्णाभे स्निग्धे जिह्वाग्रपक्ष्मले ॥
प्रसन्ने पद्मनेत्रान्ते मनोज्ञे प्रियदर्शने ।
कृष्णतारे विशाले च नयने श्रीसुखप्रदे ॥
चतुरस्रं सुसम्पूर्णं प्रसन्नं शुभलक्षणम् ।
अत्रिकोणमवक्रं च अधिकारमुखं भवेत् ॥
दीर्घमण्डलचक्राणि त्रिकोणादीनि यानि च ।
वर्ज्यानि तानि देवानां प्रजासु शिवमिव्छता ॥
कार्या हंसप्रमाणेन देवा यदुकुलोद्वह ।
तेषां च लोमकत्तंव्यमक्षिपक्ष्मसु च भ्रुवोः ॥
अतः शेषेषु गात्रेषु देवाः स्युर्लोमवर्जिताः ।
द्विरष्टवर्षाकाराश्च तथा कार्या दिवौकसः ॥
प्रसन्नवदना नित्यं तथा च स्मितदृष्टयः ।
मुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ॥
भूषितास्तेऽथ कर्तव्याः शुभस्रग्दामधारिणः ।
श्रोणीसूत्रेण महता पादाभरणचारिणा ॥
यज्ञोपवीतवन्तश्च सावतंसास्तथैव च ।
जान्वधोलम्बिना कार्याः शोभिना कटिवाससा ॥
वामे मनुजशार्दूल दक्षिणं जानु दर्शयेत् ।
अंशुकं च तथा कार्यं देवतानां मनोहरम् ॥
प्रभा च तेषां कर्तव्या मूर्ध्नि मूर्ध्नः प्रमाणतः ।
मण्डलाभा महाराज देवतातोज्नुकारिणी ॥
ऊर्ध्वा दृष्टिरधोदृष्टिस्तिर्यक् तेषां विवर्जयेत् ।
हीनाधिका वा दीना वा क्रुद्धा रूक्षा तथैव च ॥
ऊर्ध्वा तु मरणायोक्ता शोकायाधः प्रकीर्तिता ।