Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.43
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.43
- Language
- English
v2.c84.43
तिर्यग्ध्नविनाशाय हीना भवति मृत्यवे ॥
अधिका शोकजननी दीना च नृपसत्तम ।
रूक्षा धनक्षयाय स्यात्क्रुद्धा भयविवर्धिनी ॥
शातोदरी न कर्तव्या न कार्या चाधिकोदरी ।
सुक्षता च न कर्तव्या तथा यदुकुलोद्वह ॥
हीनाधिकप्रमाणा च रूक्षवर्णा तथैव च ।
विवृतेन च वक्त्रेण नता च यदुनन्दन ॥
प्रमाणहीनैस्त्वङ्गैश्च त्वधिकैरपि पार्थिव ।
शातोदरी क्षुद्भयदा मरणायाधिकोदरी ॥
सक्षता मरणायोक्ता हीना धनविनाशिनी ।
अधिका शोकजननी रूक्षवर्णा भयप्रदा ॥
विवृत्तेन च वक्त्रेण कुलनाशकरी भवेत् ।
प्राच्याभा धननाशाय दक्षिणेन च मृत्यवै ॥
पश्चिमेन सुतघ्नी च चोद्ग्भयविवृद्धये ।
प्रमाणहीना नाशाय अधिका देशनाशिनी ॥
अलक्षणा मरणायोक्ता क्रुद्धा रूपविनाशिनी ।
प्रमाणहीनां प्रतिमां तथा लक्षणवर्जिताम् ॥
आवाहिताञ्च विप्रेन्द्रैर्नाविशन्ति दिवौकसः ।
आविशन्ति तु तां नित्यं पिशाचा दैत्यमानवाः ॥
तस्मात्सर्वप्रयत्नेन मानहीनां विवर्जयेत् ।
चित्रलक्षणसंयुक्तं प्रशस्तं सर्वमुच्यते ॥
आयुष्यं च यशस्यं च धनधान्यविवर्धनम् ।
तदेव लक्षणापेतं धनधान्यविनाशनम् ॥
देवा नरेन्द्र कर्तव्याः शोभाश्वन्तः सदैव तु ।
मृगेन्द्रवृषनागानां हंसानां गतिभिः समाः ॥
सलक्षणं चित्रमुशन्ति धन्यं देशस्य कर्तुर्वसुधाधिपस्य ।
तस्मात्प्रयत्नेन सलक्षणं तत्कार्यं नरैर्यत्नपरैर्यथावत् ॥