Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.46

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.46

Language
English

v2.c84.46

एतान्यनेकभेदानि नव स्थानानि भूषिते ।
एकैकस्येह भवतः शृणु मे नृप लक्षणम् ॥
तत्राभिमुखमेवादौ स्पष्टमानगुणान्वितम् ।
सुसम्पूर्णं सुचार्वङ्गं सुलक्षणमलवर्तकम् ॥
सुशुद्धं मधुरं स्पष्टरेखासंस्कारभूषितम् ।
यद्भवत्स्थानमक्षीणगात्रं पृष्ठगतं तु तत् ॥
मुखस्याद्यावतोऽक्षीणं वक्षस उदरं तथा ।
कट्या च स्कन्धदेशाच्च ऊरुतश्च क्षयं गता ॥
नासापुटाधरोष्ठानां चतुर्थांशं च बुद्धिमत् ।
क्षयं नीतं त्रिभागं च यस्य गात्रेभ्य एव च ॥
कान्तरूपं परं स्थानं स्थानलम्भोपपादितम् ।
एतदेवर्जुनामोक्तमनेककरणान्वितम् ॥
यत्तिर्यग्भूमि लम्भेन नेत्रहारि सुवर्तनम् ।
सुकुमारं चतुर्भागं क्षीणं सर्वाङ्गशोभनम् ॥
अध्यर्धभ्रूललाटे चाप्यध्यर्धं घ्राणमुत्कटम् ।
भागक्षयावशेषार्धं कलापक्षीणलोचनम् ॥
कलावलुप्तभ्रूलेखं लिखितं स्निग्धलेखया ।
न च छायागतं कालं न चावऋजुकल्पनम् ॥
स्रेकारिकत्वाच्च नृप साचीकृतमिहोच्यते ।
अर्धं नेत्रं मुखे यस्य लुप्तमवध्रुवे तथा ॥
भङ्गे ललाटमात्रश्च दृश्यानां सारमेव तु ।
मात्रार्धा चैकतो गण्डं दृश्यमर्धकृतक्षयम् ॥
मात्रार्धं कण्डरेखाया यवमाविष्कृतं हनोः ।
उरसोऽर्धं मुखं लिप्तं नाभ्यास्याच्छिष्टमङ्गुलम् ॥
अध्यर्धशेषा च कटी अन्यच्च दर्शनीकृतम् ॥
अध्यर्धाक्षं परिज्ञेयमाकारेणैवमादिना ॥
च्छायागतमिति प्रोक्तं पर्यायेणैतदेव तु ।
यस्यावलोक्यते पार्श्वं दक्षिणं सव्यमेव वा ॥
कृत्स्नमन्यत्क्षयात्तं तदङ्गमङ्गगतस्तथा ।
एकाक्षमभ्रलेक्षमरण नामा ललाटवत् ॥
एकं श्रोत्रं यदर्धं स्याच्चिचुकार्धं शिरोरुहम् ।
गृहीतमानलावण्यमाधुर्यादिगुणान्वितम् ॥
पार्श्वगतमिति प्रोक्तं तत्स्याद्विर्तिकसंज्ञितम् ।
अपाकृद्धे कलक्षीणे कण्ठदेशे तथैव च ॥
बाहुगण्डललाटेषु कालाख्यं क्षयमागतम् ।
बाहुवक्षः कटितटस्थितिगु... ... ... ॥
द्विकलं द्विकलं ज्ञात्वा यथाभागं कृषीकृतम् ।
अनुरूपप्रमाणेन नातितीक्ष्णाङ्गमेव च ॥