Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.67
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.67
- Language
- English
v2.c84.67
सर्वतोभद्रकाकारं कथयस्व परेश्वर ॥
पञ्चपत्राणि चान्यच्च षोडशात्मकमेव च ।
तत्तद्रूपोद्भवं चैव लक्षकोट्यादिसंख्यकम् ॥
पत्रस्थानानि वै सार्धं सुरसन्त्यादिकोद्भवम् ।
कथयस्व प्रसादेन पत्रस्थानादिसाधनम् ॥
शृणु वत्स महाभाग त्वमेवं प्रकटीकृतम् ।
पत्रोत्पत्तिं च वक्ष्येऽहं शृणु चैकाग्रमानसः ॥
क्षीरोदार्णवके पूर्वं मथ्यमाने सुरासुरैः ।
तत्रोत्पन्नो महावृक्षो नाम्ना सुरतरुस्तदा ॥
नानापत्रसमाकीर्णो नानापुष्पसमाकुलः ।
नानाफलकसम्पृक्तो ललिताङ्गो मनोहरः ॥
सुगन्धामोदबहुलः सुगन्ध्रागन्धितोत्पलः ।
तद्गन्धमोहिताः सर्वे देवदैत्यादिकास्तदा ॥
परस्परं देवदैत्या वृक्षार्थे लुब्धचेतसः ।
अमृतोद्भवं मन्यन्ते दैत्याश्च त्रिदशा अपि ॥
शाखापत्रोद्भवश्चतुर्दिक्षु मध्यत ऊर्ध्वतः ।
मानतः पत्रसंकीर्णो दिशाभेदैः परात्परम् ॥
नागरं पूर्वशाखायां द्राविडं दक्षिणोद्भवम् ।
अपरे व्यन्तरं चैव वेशरं वा तथोत्तरे ॥
कालिङ्गमूर्ध्वतश्चैव शाखान्तर्जं च यामुनम् ।
षड्जात्युत्पत्तिभेदैश्च पत्रमेवं समुद्गतस् ॥
नन्दादिक्रमयोगेन तथा चन्द्रकलाक्रमः ।
दिनपत्रोद्भवस्त्वेवं सङ्ख्यातो दशपञ्चभिः ॥
नन्दा भद्रा जया रिक्ता पूर्णा स्यात् पञ्चमी तथा ।
पञ्च पञ्च तथा पञ्च मासार्धं तु यथा यथा ॥
नन्दायाः शिशुपत्रं च भद्रायाः सकलं तथा ।
स्वस्तिकं तु जयायाश्च रिक्ताया वर्धमानकम् ॥
पूर्णायाः सर्वतोभद्रं पञ्चमं परिकीर्तितम् ।
षष्ठिकादि दशम्यन्तमन्यपञ्चसमुद्भवः ॥
जयं च विजयं चैव उद्गतं पत्रमक्षयम् ।
सर्वमङ्गलं भवाख्यं पञ्चान्ये च प्रकीर्तिताः ॥
षष्ठद्याद्यं च दशम्यन्तं पत्राणां पञ्चकं तथा ।
पुनरन्यानि पञ्चैकादशाद्यं पूर्णान्तं तथा ॥
श्रियं श्रियोद्भवश्चैव रत्नगर्भं तेजोभवम् ।
सर्वानन्दं महोत्साहं पत्राणां दशपञ्चकम् ॥
वसन्ते नागरं पत्रं द्राविडं ग्रीष्मके तथा ।