Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.68

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.68

Language
English

v2.c84.68

वर्षासु व्यन्तरंभवं वेसर च शरदतौ ॥
हेमन्ते चैव कालिङ्गं यामुनं शिशिरोद्गतम् ।
षड्ऋतूद्भवपत्राणि सर्वाणि शुभदानि च ।
तथा शाखोद्भवं पत्रमुक्तं दशविधं क्रमात् ॥
शाखोद्भवानि षट्‌चैव कन्दजानि तु षोडश ॥
तथा चाकारपत्राणि लक्षकोट्यादिकानि च ।
पुनरन्यानि वक्ष्येऽहं प्रकारैः पञ्च तानि च ॥
हंसपत्रं नक्रपत्रं मत्स्यपत्रं च कूर्मकम् ।
पद्मनपत्रं तथा चैव पञ्चकं जलजं भवेत् ॥
स्थलजं छन्दजाकारं प्रासादगृहकादिकम् ।
नरनार्यादिकं पत्रं नरपत्रं च पञ्चमम् ॥
गजपत्रमश्वपत्रं जानुगं पद्मजं तथा ।
सिंहासनादिपत्रं च गजपत्रं तु पञ्चकम् ॥
अनेकाकारपत्रं च मेघपत्रं तथैव च ।
पत्राकारास्तथा चैते कथितास्त्वपराजित ॥
पुनः स्थानेषु सर्वेषु तत्र पत्राणि योजयेत् ।
स्तम्भेषु द्वारपक्षेषु प्रासादेषु च सर्वतः ॥
षोडशाभरणैश्चैव तत्र पत्रं तु दापयेत् ।
हारकेयूरकङ्कणकटिसूत्रादिभिः समैः ॥
यत्र स्थाने भवेत्पत्रं लक्ष्मीस्तत्र हितेक्षणा ।
नाऽपत्रतो भवेल्लक्ष्मीः शुभस्थानं च पत्रतः ॥