Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.69

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.69

Language
English

v2.c84.69

अथातः संप्रवक्ष्यामि कण्टकानं तु लक्षणम् ।
अष्टौ जातिक्रमच्छन्दात् कण्टका अभिधानतः ॥
कलिश्च कलिकश्चैव व्यामिश्रश्चित्रकौशलः ।
व्यावर्तंश्चैव व्यावृतः सुभङ्गो भङ्गचित्रकः ॥
अगस्तिपुष्पकाकारः संभवेत् कलिकण्टकः ।
वराहदंष्ट्राकृतिकः कलिकश्चेति संज्ञितः ॥
बद्धपुष्पोद्भवश्चैव व्यामिश्रो मध्यकेशरः ।
उकाराकारसदृशः स भवेच्चित्रकौशलः ॥
व्यावृतो व्याघ्रनखवद् व्यावृतः कलशाकृतिः ।
भङ्गचित्रोबदरवत् सुभङ्गः कृतिकाकृतिः ॥
नागरो व्याघ्रनखवद् द्राविडस्तदनन्तरम् ।
बदरीकेतकीनां च द्राविडः कण्टकैः समः ॥
व्यन्तरो वराहदंष्ट्रो वेसरो मुनिपुष्पवत् ।
उकाराकारः कालिङ्गो यामुनः पुष्पगर्भकः ॥
उक्ता अष्टविधाकारा षड्जातीयाश्च कण्टकाः ।