Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.78
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.78
- Language
- English
v2.c84.78
देशजातिकुलस्थानं वर्णभेदश्च कथ्यते ।
पूर्वोद्भवं नागरं च कर्णाटे द्राविडं स्मृतम् ॥
व्यन्तरं पश्चिमभवं वेशशं चोत्तरे तथा ।
कलिङ्गदेशे कालिङ्गं यामुनं सर्वतः स्थितम् ॥
देशजातिश्च कथिता कुलस्थानं कुलोद्गतम् ।
नागरं विप्रजातिः स्याद् द्राविडं क्षत्रियस्तथा ॥
व्यन्तरं वैश्यजातिश्च वेशशं च तथैव च ।
कालिङ्गं मिश्रवर्णाढ्यं यामुनं सर्वतः समम्॥
कुलस्थानोद्भवश्चेत्थं वर्णभेदश्च कथ्यते ।
नागरं श्वेतवर्णं स्याद् द्राविडं रक्तवर्णकम् ॥
व्यन्तरं पीतसंकाशं हरिद्वर्णं तु वेशशम् ।
हरिद्वर्णं च कालिङ्गं यामुनं सर्ववर्णकम् ॥