Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.79
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.79
- Language
- English
v2.c84.79
तत्तद्रूपानुसारेण पूरणीयास्तु चित्रकैः ।
एणसारङ्गशार्दूलशिखि तित्तिरिकदिषु ॥
भिन्नवर्णेषु सत्वेषु पृथग्वर्णः प्रयुज्यते ।
वृक्षपर्वतशस्त्रादिपदार्थेषु यथोचिताः ॥
भिन्नवर्णाः प्रयोक्तव्याः चित्रकैश्चित्रकर्मणि ।
गौरवर्णेषु नीलेषु हरितालं पुरो न्यसेत् ॥
गौरेषु गैरिकं पश्चान्नीलीं नीलेषु योजयेत् ।
क्षुरेण तीक्ष्णधारेण लेखां न्यूनाधिकां हरेत् ॥
पाण्डुरं बिन्दुजातं यत्तत्सर्वं तेन कारयेत् ।
पूरितं वर्णमात्रं यत्तावन्मात्रं हरेत्सुधीः ॥
मृदुघर्षणयोगेन यथा शङ्खो न नश्यति ।
रोमराजिमितां कुर्यात् रेखां नानाविधामपि ॥
वीरर्णैस्सूक्ष्मतुण्डाग्रैर्मृदुघर्षणयोगतः ।