Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.8
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.8
- Language
- English
v2.c84.8
चित्रमूलोद्भवं सर्वं त्रैलोक्यं सचराचरम् । ब्रह्मविष्णुभवाद्याश्च सुरासुरनरोरगाः ॥ स्थावरं जङ्गमं चैव सूर्य्यचन्द्रौ च मेदिनी । चित्रमूलोद्भवं सर्वं जगत्स्थावरजङ्गमम् ॥ वृक्षगुल्मलतावल्लय--स्वेदजाण्डजरायुजाः । सर्वे चित्रोद्भवा वत्स भूधरा द्वीपसागराः ॥ चतुरशीतिलक्षाणि जीवयोनिरनेकधा । चित्रमूलोद्भवाः सर्वे संसारद्वीपसागराः ॥ श्वेतरक्तपीतकृष्णा वर्णा वै चित्ररूपकाः । तनौ च नखकेशादि चित्ररूपमिवाम्भसाम् ॥ भगवान् भवरूपश्च पश्यतीदं परात्परम् । आत्मवद्वै सर्वमिदं ब्रह्मतेजोऽनुपश्यताम् ॥ पश्यन्ति भावरूपैश्च जले चन्द्रमसं यथा । तद्वच्चित्रमयं सर्वं पश्यन्ति ब्रह्मवादिनः ॥ विश्वं विश्वावतारश्च त्वनाद्यन्तश्च सम्भवेत् । आदिचित्रमयं सर्वं पश्यन्ति ब्रह्मचक्षुषा ॥ शिवशक्तेर्यथारूपं संसारे सृष्टिकोद्भवः । चित्ररूपमिदं सर्वं दिनं रात्रिस्तथैव च ॥ निमिषश्च पलं घटद्यो यामः पक्षक एव च । मासाश्च ऋतवश्चैव कालः संवत्सरादिकः ॥ चित्ररूपमिदं सर्वं संवत्सरयुगादिकम् । कल्पादिकोद्भवं सर्वं सृष्टद्याद्यं सर्वकर्मणाम् ॥ ब्रह्माण्डादिसमुत्पत्ती रचतारचिता तथा । तेषां चित्रमिदं ज्ञेयं नानात्वं चित्रकर्मणाम् ॥
Linked texts (1)
- Citrasūtra — Sanskrit