Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.9

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.9

Language
English

v2.c84.9

ब्रह्माण्डादिगणाः सर्वे तद्रूपाः पिण्डमध्यगाः ।
आत्मा चात्मस्वरूपेण चित्रवत् सृष्टिकर्मणि ॥
आत्मरूपमिदं पश्येद् दृश्यमानं चराचरम् ।
चित्रावतारे भावं च विधातुर्भाववर्णतः ॥
आत्मानं च शिवं पश्येद् यद्वय्य जलचन्द्रमाः ।
तद्वच्चित्रमयं सर्वं शिवशक्तिमयं परम् ॥
ऊर्ध्वमूलमधः शाखं वृक्षं चित्रमयं तथा ।
शिवशक्त्यालयं चैव चन्द्रार्कपवनात्मकम् ॥
सूर्य्यपीठोद्भवा शक्तिः संलग्ना ब्रह्ममार्गतः ।
लीयमाना चन्द्रमध्ये चित्रकृत् सृष्टिकर्मणि ॥
चित्रावताररूपं तु कथितं च परात्परम् ।
यतस्तु वर्तते चित्रे जगत्स्थावरजङ्गमम् ॥
देवो देवी शिवः शक्तिः व्याप्तं यतश्चराचरम् ।
चित्ररूपमिदं ज्ञेयं जीवमध्ये च जीवकम् ॥
कूपो जले जलं कूपे विधिपर्यायतस्तथा ।
तद्वच्चित्रमयं विश्वं चित्रं विश्वे तथैव च ॥