Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.81

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.81

Language
English

v2.c84.81

तत्कलकं हेमजं स्वल्पवज्रलेपेन मेलयेत् ॥
मिलितं वज्रलेपेन लेखिन्यग्रे निवेशयेत् ।
लिखेदाभरणं चापि यत्किञ्चद्धेमकल्पितम् ॥
चित्रे निवेशितं हेम यदा शोषं प्रपद्यते ।
बाराहदंष्ट्रया तत्तु घट्टयेत्कनकं शनैः ॥
यावत्कान्तिं समायाति विद्युच्चकितविग्रहम् ।
सर्वचित्रेषु सामान्यो विधिरेष प्रकीर्तितः ॥
प्रान्ते कज्जलवर्णेन लिखेल्लेखां विचक्षणः ।
वस्त्रमाभरणं पुष्पं मुखरागादिकं सुधीः ॥
अलक्तेन लिखेत्पश्चाच्चित्रवर्णं भवेत्ततः ।