Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.82

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.82

Language
English

v2.c84.82

पूरयेद्वर्णकैः पश्चात् तत्तद्रूपोचितैस्स्फुटम् ।
उज्ज्वलं प्रोन्नते स्थाने श्यामल निम्‍नदेशतः ॥
एकवर्णेऽर्पितं कुर्यात्तारतम्यविभेदतः ।
अधश्चेदुज्ज्वलो वर्णो घनश्यामलतां व्रजेत् ॥
भिन्नवर्णेषु रूपेषु भिन्नो वर्णः प्रयुज्यते ।
मिश्रवर्णेषु रूपेषु मिश्रो वर्णः प्रयुज्यते ॥
श्वेतेषु पूरयेच्छङ्खं शोणेषु दरदं तथा ।
रक्तेष्वलक्तरसं लोहिते गैरिकं तथा ॥
पीतेषु हरितालं स्यात्कृष्णे कज्जलमिष्यते ।
शुद्धा वर्णा इमे प्रोक्ताश्चत्वारश्चित्रसंश्रयाः ॥