Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.85
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.85
- Language
- English
v2.c84.85
अथ स्वर्णं पेषणार्थं पत्रीकृत्य यथा मृदु ।
तत्पत्रं शकलीकृत्य सूक्ष्मात् सूक्ष्मतरं पुनः ॥
किञ्चित्सिकतसंमिश्रं शुद्धतोयविमिश्रितम् ।
पेषयेत् पेषणीश्वभ्रे सुलक्षणदृषदा सुधीः ॥
जाते सुपिष्टे तत्पिष्टे काचपात्रे जलैः सह ।
आलोद्योर्ध्वगतं पङ्कं सिकतां च पुनः पुनः ॥
सन्त्यज्य जातं स्वर्णस्य पङ्कमत्युज्ज्वलं बुधः ।
युक्तिको वज्रलेपेन सहं…………………तः ॥
तत्तदुचितलेखिन्या विशेषज्ञो लिखेदिदम् ।
वराहदंष्ट्रमुख्येन शुष्के तस्मिन् पुनः पुनः ॥
यावदस्य प्रभाजाता तावन्मन्दं विघट्टयेत् ।