Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.84
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c84.84
- Language
- English
v2.c84.84
अथवान्यप्रकारेण वर्णयोगः प्रकीर्त्यते ।
मृदुरक्ते तु सिन्दूरं गैरिकं मध्यरक्तके ॥
अतिरक्ते तु संयोज्यं वर्णे लाक्षारसं विदुः ।
मनश्शिला पीतवर्णे ततोऽन्यत् पूर्वमुक्तवत् ॥
गैरिकं तु शिलापृष्ठे दिनमेकं सुपेपयेत् ।
तत् क्षोषितं शुद्धतोयैः संग्रहेन्मृद्गरादिषु ॥
दिनार्धं पेषयेत् तद्वत् सिन्दूरं जलमिश्रितम् ।
निर्जलं चूर्णयेत् तत्र पेषण्यां तु मनश्शिलाम् ॥
दिनपञ्चकमात्रं तं पुनस्तोयविमिश्रकम् ।
दिनमेकं पेषयित्वा सम्यक् पात्रेषु संग्रहेत् ॥
एतेषां निम्बनिर्यासतोयं संयोज्य युक्तितः ।
सम्मर्द्य लेपलेखनप्रक्रियाश्च समाचरेत् ॥