Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.13

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.13

Language
English

v1.c24.13

ओम् स्वस्ति विजयस्कन्धावारात् वंदितपल्लीवासकात् प्रसभप्रणतामित्राणाम् मैत्रकाणाम् अतुलबलसंपन्न-मंडलाभोग-संसक्तप्रहारतललब्धप्रतापात् प्रतापोपनतदानमा- नार्ज्जवोपाज्जितानुरागात् अनुरक्तमौलभृतश्रेणीबलावाप्तराज्याश्रियः परममाहेश्वरश्रीभटा- र्क्कन् अव्यवाच्छिन्नराजवंशात् मातापितृ-चरणारविन्दप्रणतिप्रविधौताशेष-कल्मषः शैश- वात् प्रभृति खड्गद्वितीयबाहुः एव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभा- वप्रणतारतिचुडारत्नप्रभासंसक्तपादनखररश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परि- पालनप्रजाहृदयरञ्जनान्वर्थराजशब्दः रूपकान्तस्थैर्य्यभाग्यभयद्विसम्पत्तिभिः स्मरश- शाङ्काद्रिराजोदधित्रिदशगुरुधनेशान् अतिशयानः शरणागतभयप्रदानपरतया तृणवत् अपास्ताशेषस्वकार्यफलप्रार्थनाधिकार्य्यप्रदानान्नन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद- चारि इव सकलभुवनमंडलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनः तस्य सुतः तत्पाद्- नखसंततविसृतजह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूप लोभात् इव आश्रितः सरभसमाभिगामिकैः गुणैः सहजशक्तिशिक्षाविशेषविस्मापिता- खिलधनुर्धरः प्रथमनरपतिनिस्सृष्टानाम् अनुपालयिता धर्म्मदायानाम् अपाकर्त्ता प्रजोपघात- कारिणाम् उपप्लुवानाम् दर्शयिता श्रीसरस्वत्योः एकाधिवासस्य संहृतिरातिपक्षलक्ष्मी-परि- भोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनः तस्य सुतः तत्पादानुध्यातः सकलजगदानन्दनाद्भुतगुणसमुदयस्थगितसमगदिङ्मंडलः समरश- तविजय-शोभानाथामंडलाग्रयुतिभासुरतरान् सपीठोद्धगुरुमनोरथमहाभारः सर्वविद्या- परावरिभागाधिगमविमलमतिः अपि सर्वसुभाषितलवेन अपि सुखोपादनियपारितोषः