Pramāṇa · Search · About · API

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.14

History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.14

Language
English

v1.c24.14

समग्रलोकागाधगाम्भीर्यहृदयः अपि सुचरितातिशयसुव्यक्तपरकल्याणस्वभावः खिलीभूतश्रुतयुगनुपतिपथविशोधनाधिगतोद्यत्कीर्तिः दम्भानुप्ररोधोज्वलतरुतार्यधमुखसम्पदुपसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यः तस्य अनुजः तत्पादानुध्यातः स्वयम्ऊपेन्द्रगुरुणा इव गुरुणात्यादरवता समाभिलषणीयाम् अपि राजलक्ष्मीं स्कन्धासक्ताम् परमभद्रः इव धूर्य्यः तदाज्ञासम्पादनेकरसतयैवोड्ढहन् मेदसुखरातिभ्याम् अनायासितसत्वसंपत्तिः प्रभावसंप्रदर्शितरुतनुपतितशिरोरत्नच्छायोपगुडपादपीठः अपि परावज्ञाभिमानरसानांशकितमनोवृत्तिः प्रणतिम् एकाम् परित्यज्य प्रख्यातपौरुषाभिमानैः अपि अरातिभिः अनासादितप्रतिक्रियोपायः रुतनिखिलभुवनामोदविमलगुणसंहृतिप्रसभविवघटितसकलकालिविलसितगतिन्न्रिजनाधिरोहतिः अशेषैः दोषैः अनाभृष्ट्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशल्यातिशयगणतिथिविदक्षक्षितिपाललक्ष्मी-स्वयं ग्रहप्रकाशितप्रवीरपुरुषप्रथमसेव्याधिगमः परममाहेश्वरश्रीखरग्रहः तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगमविहितार्नखिलविद्वज्जनमनःपरितोषातिशयः सत्वसम्पदा त्यागौदार्येणच विगतानुसन्धाना शमाहितातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रक्रलाथोकचरितगह्वरविभागः अपि परमभद्रप्रकृतिः अकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्यलोद्रग्रहबाहूदंडाविधवासितनिखिलप्रतिपक्षदपोर्दयः स्वधनुः प्रभावपरिभूतास्त्रैः शालानिमानसकलनुपतिमंडलाभिनन्दितशासनः परममाहेश्वर श्रीधरसेनः तस्य अनुजः तत्पादानुध्यातः सचरितातिशयसकलपूर्वनरपतिरतिदुस्साध्यानाम् अपि प्रसाधयिता विषयाणाम् मूर्तिमान् इव पुरुषकारः परिष्जंगुणानुरागनिर्भरचित्तवृत्तिभिर्मन्नुः इव स्वयम् अभ्युपन्नः प्रकृतभिः अधिगतकलाकलापः कान्तिमानानिर्वृत्तिहेतुः अकलंककुमुदनाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वन्सितध्वान्तराशिः सततोदितसविता प्रकृतिभ्यः परं प्रत्ययमैथ्वन्तमातिथ्यप्रयोजनानुबन्धम् आगमपरिपूर्णं विद्वद्वानः सन्निधिग्रहसमासन्निश्रयननिपुणः स्थानेअनुरूपम् आदेशम् ददज्ञव्राद्धि-विधानजनितसंस्कारः साधूनाम् राज्यसालातुरीयतनत्रयोः उभयोः अपि निष्णातः प्रकृष्टविक्रमः अपि करुणमृदुहृदयः श्रुतवान् अपि अगर्विंतः कान्तः अपि प्रशर्मी स्थिरसौहृदयः अपि निरासिता दोषवताम् उदयसमयसमुपजनितजनतनुराग-परिपिहितभुवनसमर्थनप्रार्थतबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनः कुशली सर्वान् एव यथासम्बध्यमानक न् समाज्ञापयति अस्तु वः संविदितम् यथा मया मातापित्रोः पुण्याप्यायनाय उदुम्बरगह्वरविनिर्गताय नकायहारनिवासीदशपुरत्रैविद्यसामान्य-पाराशरगोत्रमाध्यंदिनवाजसनेयसब्रह्मचारी ब्राह्मणबुधस्वामिपुत्रब्राह्मणदत्तस्वामि-तथागस्तिकायहारनिवासिउच्च्यमानचातुर्विद्यसामान्यपाराशरगोत्रवाजसनेयसब्रह्मचा-रिब्राह्मणबुधस्वामिपुत्रब्राह्मणकुमारस्वामिभ्याम् मालवके उच्च्यमानविषये चन्द्रपुत्रकग्रा-मे दक्षिणसार्मि भाक्विशतप्रमाणक्षेत्रम् यस्य आघाटनानि पूर्वतः धम्मणहाडिंडकाग्राम-कङ्कटः दक्षिणतः देवकुलपाटकग्रामकङ्कटः अपरतः वारितरमंडलिमहत्तरक्षेत्रमर्यादा उत्तरपश्चिमकोणे निर्गंडी तडाकिका उत्तरतः वारितरमंडली एवम् एतत् चतुराघाटनवि-शुद्धं भक्तीशतप्रमाणक्षेत्रम् शोद्रङ्गं सोपरिकरणीयम् सभूतवातप्रत्ययम् धान्याहिरण्या-देयम् सदशापराधम् सोप्यमानविष्टिकम् सर्वराजकीयानाम् अहस्तक्षेपणीयम् पूर्वप्रत्त-देव ब्रह्मदेयब्राह्मणविक्षातिरहितम् भूमिच्छिद्रन्यायेन आचन्द्राक्र्णार्णवक्षितिसमेत्पर्व-तसमकालीनम् पुत्रपौत्रान्वयभोग्यम् उदकातिसर्गेण धर्मल्यो निसृष्टः यतः अनयोः उचितया ब्रह्मदेयस्थित्या भुंजतः रूपतः कर्षतः प्रदिशतोर्वा कैश्चिद्व्यासेधे वर्तित- व्यमागामिभद्रनृपतिभिः अपि अस्मद्वंशजैः अन्यैः वा अनित्यानि ऐश्वर्याणि अस्थिरम् मानुष्यञ्च सामान्यञ्च भूमिदानफलम् अवगच्छद्भिः अयम् अस्मद्दाय्य अनुमन्तव्यः परिपालयितव्यः च इति उक्तं च बहुभिः वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिः तस्य तस्य तदा फलम् ॥ यानि इह दारिद्र्यभयात् नरेन्द्रैः धनानि धर्मीयतनीकृतानि । निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनः आददीत ॥ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता च अनुमन्ता च तानि एव नरके वसेत् इति । दूतकः अत्र राजपुत्रः श्रीख-रयः । लिखितमीदम् सन्धि विग्रहाधिकृतदिविरपतिभट्टिपुत्रदिविरस्कन्दभटेन ॥ सं ३०० २० १ चैत्र व ३ स्वहस्तोमय ॥