History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.3
History of Mediaeval Hindu India (being a History of India from 600 to 1200 A.D.) v1.c24.3
- Language
- English
v1.c24.3
ॐ आसीद्दिन्सहस्रगाढकठको विद्याधराध्यासितः । सद्वंशः स्थिर उन्नतो गिरिरिव श्रीकृष्णगुप्तो नृपः ॥ द्विसारातिमदान्धवारणघटाकुम्भस्थलीः क्षुन्दता ॥ यस्यासंख्यरिसुप्रतापजयिना दोष्णा मृगेन्द्रायितम् ॥ १ ॥ सकलः कलंकरहितः क्षतार्तिमिरतोयधेः शशांक इव ॥ तस्मादुदपादि सुतो देवः श्रीहर्षगुप्त इति ॥ २ ॥ यो योग्याकालहेलादनतदृढनुर्भीमबाणौघपाती । मर्तैः स्वस्वामिलक्ष्मीवसतिविमुखितैरैक्षितः साश्रुपातम् ॥ धोराणामाहवानां लिखितमिव जयं श्लाघ्यमाविर्द्धधानो । वक्षस्युद्घामशस्त्रव्रणकठिनकिणग्रन्थिलेखाच्छलेन ॥ ३ ॥ श्रीजि वितगुमोऽभूत् क्षितीशचूडामणिः सुतस्तस्य ॥ यो दृष्टवैरीनारीमुखनलिनवनिकाशिशिरकरः ॥ ४ ॥ भुक्तामुकूपयःप्रवाहशिशिरास्तंगतालीवन—। भ्राम्यद्दनिकरावलोकनकदलीकाण्डासु वेलास्वपि ॥ द्योतत्स्फारतपारनिर्झरपयःशीतेऽपि शैले स्थितान् । यस्योच्चैर्द्विषतो मुमोच न महाघोरः प्रतापज्वरः ॥ ५ ॥ यस्यातिमानुषं कर्म दृश्यते विस्मयाज्जनौघेन । अद्यापि कोशवर्धनतटात् प्लुतं पवनजस्येव ॥ ६ ॥ प्रख्यातशक्तिमाजिषु पुरःसरं श्रीकुमारगुप्तामिति । अजनयदेकं स नृपो हर इव शिखिवाहनं तनयम् ॥ ७ ॥ उत्सर्पदत्हेलाचलितकदलीकावीचिमालावितानः । प्रोयदूधूलीजलौघभामितगुरुमहमत्तमातंगशैलः ॥ भीमः श्रीशानवर्मक्षितिपतिशाशिनः सैन्यदुग्धोदसिन्धु—। र्लक्ष्मीप्राप्तिहेतुः सपदि विमथितो मन्दरीभूय येन ॥ ८ ॥ शौर्यसत्यव्रतधरा यः प्रयागतो धने । अम्भसीव करीषाग्नौ मग्नः सत्पुष्पपूजितः ॥ ९ ॥ श्रीदामोदरगुप्तोऽभूत्तनयस्तस्य भूपतेः । येन दामोदरेणेव दैत्या इव हता द्विषः ॥ १० ॥ यो मौखरेः समितिपूद्धतहूणसैन्या । वल्गद्घटा विघटयन्नुरुवारणानाम् ॥ सम्मूच्छितः सुरवधूर्वरयन्नमेति । तत्पाणिपंकजसुखस्पर्शाद्विबुद्धः ॥ ११ ॥ गुणवद्द्विजकन्यानां नानालंकारयौवनवतीनाम् । परिणायितवान् स नृपः शतं निसृष्टयहाराणाम् ॥ १२ ॥ श्रीमहासेनगुप्तोऽभूत्तस्माद्वीराग्रणीः सुतः । सर्ववीरसमाजेषु लेभे यो धुरि वीरताम् ॥ १३ ॥ श्रीमत्सुस्थितवर्मयुद्धविजयश्लाघापदांकं मुहु—।
Linked texts (1)
- Aphsaḍ stone inscription of Ādityasena — Sanskrit